Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १८ जूनमास: (हि.स.)। पश्चिमबङ्गस्य पूर्वमुख्यमन्त्रिणः तथा तृणमूल-काङ्ग्रेस-दलस्य प्रमुखायाः ममताबनर्जी-महोदयायाः सुरक्षा-व्यवस्थायां कृते परिवर्तनविषये तृणमूल-काङ्ग्रेस-दलेन राज्यसर्वकारस्य उपरि प्रश्नाः उत्थापिताः। दलस्य आरोपः अस्ति यत् ममताबनर्जी-महोदयायाः सुरक्षायां विंशतिवर्षेभ्यः आरभ्य नियुक्ताः राजकीय-सुरक्षाकर्मिणः अपसारिताः।
राज्यसभायां तृणमूल-काङ्ग्रेस-दलस्य नेता डेरेक् ओ'ब्रायन् सामाजिक-माध्यम-मञ्चे एक्स् इत्यत्र एतद्विषये सूचनां प्रदत्तवान्। तस्य कथनानुसारं बुधवासरे सायंकाले धर्मतलात् सुभाष-मल्लिक-चतुष्पथं यावत् निष्कासितायां पदयात्रायां ममताबनर्जी-महोदयायाः सुरक्षायां पुरातनाः आरक्षककर्मिणः नियुक्ताः आसन्, किन्तु सायं प्रायः सार्धसप्तवादने ते अपसारिताः, तेषां स्थाने च नूतनाः सुरक्षाकर्मिणः नियुक्ताः।
डेरेक ओ'ब्रायन् इत्यनेन उक्तम् यत् अपसारिताः सुरक्षाकर्मिणः प्रायः विंशतिवर्षाणि यावत् ममताबनर्जी-महोदयायाः सुरक्षायाः कार्ये संलग्नाः आसन्। तृणमूल-काङ्ग्रेस-दलस्य मतम् अस्ति यत् अस्मिन् परिवर्तने अनेके प्रश्नाः उत्पद्यन्ते।
अस्मिन्नेव समये किमपि अप्रियं घटनाक्रमं निवारयितुं दक्षिण-कोलकातास्थिते कालीघाट-क्षेत्रे ममताबनर्जी-महोदयायाः निवासस्य बहिः अस्थायिनी ‘व्यू-कटर्’ इति दृश्यावरोधक-भित्तिः अपि स्थापिता। सूत्राणां अनुसारं सुरक्षा-कारणात् एषा व्यवस्था कृता, येन बहिः स्थिताः जनाः निवासस्य अन्तर्भागे क्रियमाणाः गतिविधयः प्रत्यक्षतया निरीक्षितुं न शक्नुयुः।
नव-सूत्राणां अनुसारं पूर्वमुख्यमन्त्रिणः निवासस्य सुरक्षायाः उत्तरदायित्वं सुरक्षा-निदेशालयस्य अधीनम् अस्ति। तस्यैव स्तरस्य सुरक्षा-समीक्षायाः अनन्तरम् एतां अस्थायिनीं संरचनां स्थापयितुं निर्णयः कृतः।
तथापि, राज्यप्रशासनस्य पक्षतः सुरक्षाकर्मिणां परिवर्तनविषये अथवा दृश्यावरोधक-भित्तेः स्थापनविषये किमपि आधिकारिकं वक्तव्यं न प्रकाशितम्। अपरतः तृणमूल-काङ्ग्रेस-दलेन एतत् घटनाक्रमं राजनैतिकदृष्ट्या महत्त्वपूर्णम् इति उक्त्वा अस्य विषयस्य पर्यवेक्षणं निरन्तरं करिष्याम: इति अभिहितम्। सांसदः कल्याणबनर्जी अपि अस्मिन् विषये टिप्पणीं कृत्वा एतां कार्यवाहीं दुर्भाग्यपूर्णाम् इति अवदत्।
Hindusthan Samachar / Divya Ranjan