Enter your Email Address to subscribe to our newsletters

लखनऊ, 18 जूनमासः (हि.स.)।
प्रदेशे आगामिनः द्वादशस्य अन्ताराष्ट्रिययोगदिवसस्य २१ जून २०२६ इत्यस्य अवसरस्य उपलक्ष्ये आयुषविभागेन त्रयः बृहत्तराः राज्यस्तरीयप्रतियोगिताः आयोज्यन्ते। प्रतियोगितासु सहभागितायै आयुषविभागेन निर्मिते पटलस्थले https://kavach.upayush.in प्रतियोगिताविभागे आनलाइनमाध्यमेन सहभागिता कर्तुं शक्यते।
आयुषविभागात् प्राप्तसूचनानुसारं प्रथमा घोषवाक्यप्रतियोगिता भविष्यति। अस्याः अन्तर्गतं हिन्दीभाषायां न्यूनातिन्यूनं द्विपङ्क्तीयं अधिकात्यधिकं चतुर्पङ्क्तीयं घोषवाक्यं भविष्यति। द्वितीया योगचित्रकलाप्रतियोगिता भविष्यति, यस्याः अन्तर्गतं ७० गुणित ५६ सेन्टीमीटरपरिमाणयुक्ते पत्रफलकस्य उपरि हस्तेन निर्मितं चित्रं प्रस्तोतव्यं भविष्यति। एवं तृतीया योगासनप्रतियोगिता भविष्यति, यस्याः अन्तर्गतं अधिकात्यधिकं एकमिनिटपरिमितः दृश्यालेखः भविष्यति। सर्वासु प्रतियोगितासु समस्ताः सामान्यजनाः सहभागं कर्तुं शक्नुवन्ति।
एतासां प्रतियोगितानाम् उद्देश्यम् सामान्यजनमानसे योगस्य प्रति जागरूकतां प्रोत्साहनं च वर्धयितुम् अस्ति। यथा जनाः लेखनस्य, चित्रकलायाः, दृश्यसञ्चारमाध्यमस्य च द्वारा योगदिवसे सहभागीभूत्वा स्वप्रतिभायाः प्रदर्शनं कुर्युः तथा च पुरस्कारान् प्राप्नुयुः।
प्रथमस्थानप्राप्तप्रतियोगिने २१००० रूप्यकाणि, द्वितीयस्थानप्राप्तप्रतियोगिने ११००० रूप्यकाणि, तृतीयस्थानप्राप्तप्रतियोगिने ५१०० रूप्यकाणि प्रदास्यन्ते। तथैव चतुर्थस्थानप्राप्तप्रतियोगिने २१०० रूप्यकाणि तथा पञ्चमस्थानप्राप्तप्रतियोगिने ११०० रूप्यकाणां धनराशिः प्रदास्यते।
Hindusthan Samachar / Dheeraj Maithani