मार्गस्य गुणवत्ता विकृता तर्हि संबंधितप्रतिनिधौ सर्वकारीकार्मिकेषु कार्यवाही करणीया- दिया कुमारी
जयपुरम्, 18 जूनमासः (हि.स.)। उपमुख्यमन्त्री दिया कुमारी निर्देशान् प्रदत्तवती यत् यदि कस्यचित् मार्गस्य गुणवत्ता न्यूनता दृश्यते तर्हि सम्बन्धितप्रतिनिधेः तथा शासकीयकार्मिकाणां विरुद्धं कार्यवाही क्रियेत। गुरुवासरे लोकनिर्माणविभागस्य मुख्यालये आ
उपमुख्यमंत्री दिया कुमारी ने की विकास कार्यों की समीक्षा


जयपुरम्, 18 जूनमासः (हि.स.)।

उपमुख्यमन्त्री दिया कुमारी निर्देशान् प्रदत्तवती यत् यदि कस्यचित् मार्गस्य गुणवत्ता न्यूनता दृश्यते तर्हि सम्बन्धितप्रतिनिधेः तथा शासकीयकार्मिकाणां विरुद्धं कार्यवाही क्रियेत।

गुरुवासरे लोकनिर्माणविभागस्य मुख्यालये आयोजितायाः समीक्षोपवेशनस्य अध्यक्षतां कुर्वती उपमुख्यमन्त्री एतान् निर्देशान् प्रदत्तवती। सा उक्तवती यत् न्यूनगुणवत्तायुक्तमार्गस्य केवलं सुधारात्मककार्यवाही पर्याप्ता नास्ति अपितु उत्तरदायिनां विरुद्धम् अपि कार्यवाही भवितव्या।

तया निर्देशाः प्रदत्ताः यत् अधिकारिणः सप्ताहे न्यूनातिन्यूनं द्वौ दिवसौ क्षेत्रभ्रमणं कृत्वा मार्गाणाम् निरीक्षणं करिष्यन्ति तथा प्रत्येकसप्ताहे प्रतिवेदनं प्रस्तुतयिष्यन्ति।

उपमुख्यमन्त्री भूम्यधिग्रहणम् वनभूमिः इत्यादिकारणैः विलम्बितानां मार्गपरियोजनानां बिन्दुवारसमीक्षां कुर्वती उक्तवती यत् सम्बन्धितविभागैः सह समन्वयं कृत्वा परियोजनासु आगच्छन्त्यः बाधाः दूरं क्रियन्ताम्। सा उक्तवती यत् शासनस्य अभिप्रायानुसारं विकासकार्याणां लाभः सामान्यजनानां कृते समये एव उपलब्धः भवेत्।

अस्मिन् अवसरे सा वित्तीयघोषणानां प्रगतिसमीक्षां कुर्वती गुणवत्तया सह शीघ्रतया निर्माणकार्यसमापनस्य निर्देशान् प्रदत्तवती। सा द्रुतमार्गनिर्माणकार्यं निर्धारितसमयसारण्यानुसारं पूर्णं कर्तुम् अपि निर्देशान् प्रदत्तवती।

अस्मिन् अवसरे उपमुख्यमन्त्री राष्ट्रियराजमार्गपरियोजनानां राष्ट्रियराजमार्गप्राधिकरणसम्बद्धपरियोजनानां केन्द्रीयमार्गनिधिपरियोजनानां राजस्थानराज्यमार्गविकासनिर्माणनिगमसम्बद्धपरियोजनानां च विविधमार्गीयाधारभूतसंरचनात्मकपरियोजनानां बिन्दुवारसमीक्षां कृतवती।

उपवेशने विभागस्य अतिरिक्तमुख्यसचिवः प्रवीण गुप्तः शासनसचिवः डी आर मेघवाल मुख्यअभियन्ता अतिरिक्तमुख्यसचिवः सुनील जय सिंह तथा अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani