Enter your Email Address to subscribe to our newsletters

नैनीतालनगरम्, १८ जूनमासः (हि.स.)। नगरपालिकापरिषदः नैनीतालस्य सभागारे गुरुवासरे स्वनिधि-महोत्सवः आयोजितः। अस्मिन् अवसरे स्ट्रीट-वेंडर्स इति लघुविक्रेतृभ्यः विभिन्नानां जनकल्याणकारी-योजनानां विषये विस्तृततया सूचना प्रदत्ता तथा महिला-विकलाङ्ग-विक्रेतारः विशेषरूपेण सम्मानिताः।
अस्मिन् कार्यक्रमे प्रधानमंत्री स्वनिधियोजनाया: अन्तर्गतं ऋण-प्राप्तेः अनन्तरं प्राप्तलाभाधारितायां “सफलता-कथा” प्रतियोगितायां कंचनः प्रथमस्थानं, केशी-रामः द्वितीयस्थानं, विजय-कुमारः च तृतीयस्थानं प्राप्तवान्।
कार्यक्रमस्य अध्यक्षतां नगरपालिकाध्यक्षा डॉ.सरस्वतीखेतवालः अकरोत्। अधिशासी-अधिकारी रोहिताश-शर्मा विक्रेतृभ्यः धनागार-प्रबन्धकैः सह समन्वयेन योजनानां प्रभावी-क्रियान्वयनाय आह्वानं कृतवान्।
धनागार-प्रबन्धकैः प्रधानमंत्री जीवनज्योतिबीमायोजना, प्रधानमंत्री सुरक्षा बीमा योजना तथा जनधनयोजना इत्यादीनां योजनानां विषये सूचना प्रदत्ता।
मुख्यप्रशिक्षकः चन्दनसिंह-भण्डारी प्रधानमंत्री मातृवंदनायोजना, जननी-सुरक्षा-योजना तथा श्रम-विभागीय-योजनानां विषये अपि विस्तृतां सूचनां दत्तवान्।
कार्यक्रमे सूडा-विभागस्य सोनू-तिवारी, सीमा-कुंवर:, अमृत-योजनायाः डीएमएम उमेश-जोशी, धनागार-प्रतिनिधयः तथा अनेके विक्रेतारः उपस्थिताः आसन्। कार्यक्रमे सर्वे विक्रेतारः सम्मानिताः।
Hindusthan Samachar / Divya Ranjan