Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, १८ जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे २१ जूनमासे हरिद्वारस्य ऋषिकुल-आयुर्वेदिक-महाविद्यालयस्य क्रीडाङ्गणे प्रातः षड्वादने भव्यं योगशिविरम् आयोजयिष्यते।
कार्यक्रमस्य सज्जतायाः तथा व्यवस्थायाः समीक्षा मुख्यविकासाधिकारिण: डॉ.ललितनारायण-मिश्रस्य अध्यक्षतायां विकासभवनस्य सभागारे आयोजितायां सभायां कृता।
सभायां सूचितं यत् योगशिविरे प्रदेशस्य आयुषमन्त्री मदनकौशिकः मुख्यातिथि-रूपेण, तथा हरिद्वार-नगरनिगमस्य महापौरः किरणजैसलः विशिष्टातिथिरूपेण च सहभागिनौ भविष्यतः।
मुख्यविकासाधिकारी कार्यक्रमस्य सफलतायै विभिन्नविभागेभ्यः दायित्वानि अयच्छत्। स्वास्थ्यविभागाय द्वे आपत्कालवाहने तथा चिकित्सकदलस्य नियोजनं कर्तुं निर्देशः दत्तः। विद्युत्विभागाय अविच्छिन्नविद्युत्सेवायाः व्यवस्था, जलसंस्थानाय पेयजलव्यवस्था च सुनिश्चितुं आदेशः प्रदत्तः। नगरमजिस्ट्रेटाय वी.आई.पी.-व्यवस्थायाः दायित्वं, तथा यातायात-नियमन-पार्किंग-व्यवस्थायाः दायित्वं आरक्षक-सिटी-अधिकारिणे समर्पितम्।
प्रशासनस्य अनुसारं अस्मिन् कार्यक्रमे प्रायः सहस्रं प्रतिभागिनः सहभागं करिष्यन्ति इति अपेक्षा अस्ति। जनपद-आयुर्वेदिक-अधिकारी डॉ.स्वास्तिक-जैन योगमातृणां तथा जलपानस्य समुचितव्यवस्थां सुनिश्चितुं निर्दिष्टः। सभायां मुख्यचिकित्साधिकारी आर.के.सिंह:, जनपद-विकासाधिकारी वेदप्रकाशः, सहायक-आरटीओ निखिल-शर्मा इत्यादयः अधिकारीणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan