उच्चन्यायालये ज्यूडिशियल असिस्टेंट इत्यस्यां परीक्षायाम्आलोक कुमार शर्मा अकरोत् प्रदेशे प्रथमः
रायगढ़म्, 19 जूनमासः (हि.स.)। जिलान्तर्गत तमनार विकासखण्डस्य करमागढ़ग्रामनिवासी आलोककुमार शर्मा पुनरेकवारं स्वप्रतिभायाः उत्कृष्टतां प्रदर्श्य छत्तीसगढ़ उच्चन्यायालयेन आयोजितायां ज्यूडिशियल असिस्टेन्ट भर्तीपरीक्षायां प्रदेशे प्रथमस्थानं प्राप्तवा
आलोक कुमार शर्मा


रायगढ़म्, 19 जूनमासः (हि.स.)।

जिलान्तर्गत तमनार विकासखण्डस्य करमागढ़ग्रामनिवासी आलोककुमार शर्मा पुनरेकवारं स्वप्रतिभायाः उत्कृष्टतां प्रदर्श्य छत्तीसगढ़ उच्चन्यायालयेन आयोजितायां ज्यूडिशियल असिस्टेन्ट भर्तीपरीक्षायां प्रदेशे प्रथमस्थानं प्राप्तवान्। तस्य अस्य उपलब्धेः कारणात् परिवारे क्षेत्रे जनपदे च हर्षोल्लासस्य वातावरणम् अस्ति।

आलोककुमार शर्मणः पितुः नाम परमानन्द शर्मा अस्ति। सः सम्प्रति पञ्चायतसञ्चालनालये स्वसेवाः प्रददाति। ग्रामीणपरिवेशात् उद्भूय निरन्तरं प्रतियोगितापरीक्षासु उत्कृष्टप्रदर्शनं कुर्वन् आलोकः अद्य क्षेत्रस्य युवजनानां कृते प्रेरणास्रोतः अभवत्।

उल्लेखनीयम् अस्ति यत् एतस्मात् पूर्वम् अपि आलोकः व्यापम् द्वारा आयोजितायां संयुक्तभर्तीपरीक्षायां प्रदेशे प्रथमस्थानं प्राप्तवान् आसीत्। तथैव अस्मिन् एव वर्षे अखिलभारतीय आयुर्विज्ञान संस्थान द्वारा आयोजितायां कॉमन रिक्रूटमेंट एग्जामिनेशन सीआरई परीक्षायां देशव्यापि द्वितीयस्थानं प्राप्त्वा राष्ट्रीयस्तरे अपि स्वप्रतिभायाः परिचयं प्रदर्शितवान्।

आलोककुमार शर्मा अधुना यावत् विभिन्नविभागैः संस्थाभिः च आयोजितासु अष्टाधिकदश प्रतियोगितापरीक्षासु सफलतां प्राप्तवान् अस्ति। एतेषु अधिकांशपरीक्षासु सः श्रेष्ठदश अभ्यर्थिषु स्थानं प्राप्त्वा स्वपरिश्रमस्य अनुशासनस्य अध्ययननिष्ठायाः च परिचयं प्रदर्शितवान् अस्ति।

आलोककुमार शर्मणः अस्याः उल्लेखनीयायाः सफलतायाः उपलक्ष्ये परिवारजनैः शुभचिन्तकैः मित्रैः क्षेत्रवासिभिः च तस्मै अभिनन्दनानि प्रदत्तानि तथा उज्ज्वलभविष्याय शुभकामनाः अपि प्रदत्ताः।

---------------

Hindusthan Samachar / Dheeraj Maithani