जी-७ शिखरसम्मेलनं स्लोवाकियादेशयात्रा च भारतस्य वैश्विकप्रतिष्ठां वर्धितवती - भाजपा
नवदिल्ली, १९ जूनमास: (हि.स.)। भारतीयजनतापक्षः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः समीपकाले सम्पन्ना जी-७ शिखरसम्मेलने सहभागिता तथा स्लोवाकियादेशयात्रा वैश्विकमञ्चे भारतस्य वर्धमानप्रतिष्ठां अधिकं सुदृढीकृतवती। पक्षस्य अनुसारं कस्यापि भारतीयप्
भाजपा प्रवक्ता डॉ. सुधांशु त्रिवेदी


नवदिल्ली, १९ जूनमास: (हि.स.)। भारतीयजनतापक्षः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः समीपकाले सम्पन्ना जी-७ शिखरसम्मेलने सहभागिता तथा स्लोवाकियादेशयात्रा वैश्विकमञ्चे भारतस्य वर्धमानप्रतिष्ठां अधिकं सुदृढीकृतवती। पक्षस्य अनुसारं कस्यापि भारतीयप्रधानमन्त्रिणः एषा प्रथमैव स्लोवाकियादेशयात्रा आसीत्। तत्र प्रधानमन्त्री मोदी देशस्य सर्वोच्चेन नागरिकसम्मानेन अपि सम्मानितः।

भाजपामुख्यालये शुक्रवासरे आयोजितायां पत्रकारवार्तायां पक्षस्य राष्ट्रियप्रवक्ता सांसदः च डॉ.सुधांशुत्रिवेदी अवदत् यत् भाजपाशासनकाले एव भारतं जी-७ समूहे विशेषामन्त्रितसदस्यरूपेण सम्मिलितम्। एतादृशः प्रथमः अवसरः २००३ तमे वर्षे अटलबिहारीवाजपेयी-महाभागस्य प्रधानमन्त्रित्वकाले प्राप्तः।

तेनोक्तं यत् जी-७ शिखरसम्मेलनस्य समये भारतेन महत्त्वपूर्णा भूमिका निर्वुढा तथा अनेकैः देशैः सह द्विपक्षीयवार्ताः सम्पन्नाः। भारतेन जी-७ सदस्यराष्ट्राणां पुरतः इण्टरनेशनल मोबिलाइजेशन पार्टनरशिप फॉर एक्सेलेरेटिङ्ग कनेक्टिविटी एण्ड् ट्रेड् इति प्रस्तावः प्रस्तुतः, यस्मिन् सदस्यदेशैः विशेषरुचिः प्रदर्शिता। एतत् भारतस्य वर्धमानस्य वैश्विकप्रभावस्य प्रमाणमिति तेन उक्तम्।

डॉ. त्रिवेदी अवदत् यत् प्रधानमन्त्री मोदी अद्यावधि ३३ अन्ताराष्ट्रियसम्मानैः सम्मानिताः सन्ति, यत् विश्वस्तरे तेषां नेतृत्वस्य व्यापकस्वीकार्यमाणतां प्रदर्शयति।

तेनोक्तं यत् प्रधानमन्त्री मोदीनः नेतृत्वे भारतं निरन्तरं विश्वस्य प्रमुखराष्ट्राणां विश्वासं सम्पादयति। फ्रान्सदेशेन विज्ञान-प्रौद्योगिकी-अभियांत्रिकी-गणित शिक्षाक्षेत्रे प्रतिवर्षं ३० सहस्रभारतीयच्छात्रेभ्यः अध्ययनावसरप्रदानस्य निर्णयः अपि भारत-फ्रान्सदेशयोः सुदृढसम्बन्धानां द्योतकः इति तेन प्रतिपादितम्।

Hindusthan Samachar / Divya Ranjan