Enter your Email Address to subscribe to our newsletters

रायपुरम्, 19 जूनमासः (हि.स.)।
छत्तीसगढ़-राज्यस्य राजधानी रायपुर-नगरे मुख्यमन्त्रिणः विष्णुदेव सायस्य निवासस्थाने गुरुवासरे रात्रौ राज्यसर्वकारस्य तथा दलसङ्गठनस्य मध्ये साढे-चतुः-घण्टाधिक-कालपर्यन्तं महत्त्वपूर्णा दीर्घ-उपवेशन-सभा अभवत्। अस्यां सभायां मुख्यमन्त्री विष्णुदेव सायः, मन्त्रिमण्डलस्य सर्वे मन्त्रिणः तथा भारतीयजनतापक्षस्य वरिष्ठ-सङ्गठन-नेतारः अपि उपस्थिताः आसन्। सभायाः अध्यक्षतां भारतीयजनतापक्षस्य क्षेत्रीय-सङ्गठन-महामन्त्री अजय जामवालः अकरोत्। अस्मिन् उपवेशने शासनस्य सङ्गठनस्य च मध्ये उत्तम-समन्वयस्य विषये विस्तृत-विमर्शः कृतः।
उपवेशनानन्तरं मन्त्रिमण्डले परिवर्तनस्य अटकलाः निराकुर्वन् कृषिमन्त्री रामविचार नेतामः पत्रकारेभ्यः अवदत् यत्, “सर्वे सुरक्षिताः सन्ति, सम्पूर्णं छत्तीसगढ़म् अपि सुरक्षितम् अस्ति।”
मुख्यमन्त्रिणः निवासस्थाने सञ्चालिता एषा सभा रात्रौ प्रायः द्विवादने समाप्ता, ततः परं सर्वे मन्त्रिणः सङ्गठन-पदाधिकारीणश्च स्वस्व-स्थानानि प्रति प्रस्थिताः।
उपमुख्यमन्त्री विजय शर्मा अवदत् यत् एतादृशी सभा प्रथमवारं न जाता। शासनस्य सङ्गठनस्य च मध्ये प्रतित्रैमासिकं एतादृशाः सभाः भवन्ति। तेन उक्तं यत् आगामि-कार्यक्रमाणां विषये अस्मिन् उपवेशने रणनीतिः निर्मिता। मन्त्रिभ्यः विधायकेभ्यश्च तेषां प्रवास-कार्यक्रमानुसारं दायित्वानि प्रदत्तानि। प्रभार-क्षेत्रेषु प्रवास-कार्यक्रमाणां समीक्षा अपि कृता।
मन्त्रिमण्डल-परिवर्तनस्य विषये पृष्टः सः अवदत् यत् अस्मिन् विषये उपवेशने कापि चर्चा न अभवत्।
अपरः उपमुख्यमन्त्री अरुण सावः अवदत् यत् एषा नियमित-सभा आसीत्, या मुख्यमन्त्रिणा आहूता। अस्यां सभायां प्रधानमन्त्री नरेन्द्र मोदी-महोदयस्य द्वादश-वर्षीय-कार्यकालस्य उपलब्धीनां तथा नेतृणां दायित्वानां विषये चर्चा कृता।
वनमन्त्री केदार कश्यपः अवदत् यत् सभायां सर्वेषां विभागीय-कार्याणां समीक्षा कृता। तत्र प्रभार-क्षेत्रेषु प्रवासाः, प्रधानमन्त्री नरेन्द्र मोदी-महोदयस्य कार्यकालस्य द्वादश-वर्ष-पूर्णतायाः उपलक्ष्ये आयोज्यमानाः कार्यक्रमाः, मन्त्रिणां विधायकानां च क्षेत्रीय-भ्रमणानि तथा तेषां कार्यक्रमाणां समीक्षा च अन्तर्भूता आसीत्।
उल्लेखनीयम् अस्ति यत् मुख्यमन्त्रिणा मन्त्रिभ्यः आकस्मिकरूपेण रात्रौ नववादने स्वनिवासे उपस्थितुं निर्देशः प्रदत्तः आसीत्। तस्य परिणामस्वरूपं अनेकैः मन्त्रिभिः स्वेषां पूर्वनिर्धारित-प्रवास-कार्यक्रमाः अपि निरस्ताः कर्तव्याः अभवन्।
Hindusthan Samachar / Dheeraj Maithani