डिजिटलयुगे संस्काराणां जागरणम्, सूरतविद्यालये विद्यार्थिभ्यः रामायणग्रन्थः समर्पितः
सूरतनगरम्, जूनमास: १९ (हि.स.)। डिजिटलयुगे यदा अधिकांशः बालकानां समयः चलदूरवाणी-सामाजिकमाध्यमयोः मध्ये व्यतीतः भवति, तदा सूरत-महानगरपालिकया सञ्चालितेन एकेन विद्यालयेन शिक्षया सह संस्काराणामपि समन्वयं कर्तुं प्रशंसनीय: प्रयत्न: कृत:। वेरियाव-स्थिते प
वाल्मीकि कृत रामायण पुस्तिका का वितरण


सूरतनगरम्, जूनमास: १९ (हि.स.)। डिजिटलयुगे यदा अधिकांशः बालकानां समयः चलदूरवाणी-सामाजिकमाध्यमयोः मध्ये व्यतीतः भवति, तदा सूरत-महानगरपालिकया सञ्चालितेन एकेन विद्यालयेन शिक्षया सह संस्काराणामपि समन्वयं कर्तुं प्रशंसनीय: प्रयत्न: कृत:। वेरियाव-स्थिते प्राथमिकविद्यालये अष्टमकक्षायाः विद्यार्थिभ्यः भारतीय-संस्कृतेः जीवनमूल्यानां च परिचयार्थं महर्षिवाल्मीकिना विरचिता रामायण-पुस्तिका वितरिता।

सूरत-महानगरपालिकायाः नगर-प्राथमिकशिक्षासमित्या सञ्चालिते कविश्री रमेशपारेख: प्राथमिकविद्यालय-क्रमाङ्कः ३१६, ताडवाडी-वेरियाव इत्यत्र आयोजिते कार्यक्रमे एकस्य दानदातुः सहयोगेन अष्टमकक्षायां पठद्भ्यः प्रायः शतं विद्यार्थिभ्यः रामायणस्य प्रतयः समर्पिताः।

विद्यालयेन विद्यार्थिनां सर्वाङ्गीण-विकासाय विगतकतिपयवर्षेभ्यः विशेष-प्रयत्नाः क्रियन्ते। अस्याः परम्परायाः अन्तर्गतं गतवर्षेऽपि अष्टमकक्षायाः विद्यार्थिभ्यः श्रीमद्भगवद्गीता प्रदत्ता आसीत्।

गीतायाः माध्यमेन विद्यार्थिषु कर्मयोगस्य, कर्तव्यनिष्ठायाः तथा जीवनमूल्यानां बोधः कारितः। एतां परम्पराम् अग्रे नयन् अस्मिन् वर्षे रामायणस्य वितरणं कृतम्, यतः विद्यार्थी भगवत: श्रीरामस्य आदर्शजीवनं, मातृपितृसेवा, सत्यनिष्ठा, वचनपालनम्, त्यागः तथा आदर्श-मानवजीवनस्य मूल्यानि सम्यग् अवगच्छेयुः।

अवसरेऽस्मिन् विद्यार्थिभ्यः रामायणस्य आध्यात्मिकं, नैतिकं, सांस्कृतिकं च महत्त्वं विस्तरेण विवृत्तम्। वक्तारः अवदन् यत् रामायणं केवलं धार्मिकग्रन्थः न, अपितु जीवनं सम्यक् कथं जीव्यते इति शिक्षयन् महान् ग्रन्थः अस्ति। तत्र प्रतिपादिताः आदर्शाः अद्यापि प्राचीनकाले इव समानरूपेण प्रासङ्गिकाः सन्ति।

विद्यालयस्य अध्यापकाः अवदन् यत् शिक्षायाः प्रयोजनं केवलं परीक्षासु उत्तमाङ्कप्राप्तिः न, अपितु उत्तमस्य उत्तरदायिनः नागरिकस्य निर्माणमपि अस्ति। रामायणं गीता च विद्यार्थिषु संवेदनशीलतां, अनुशासनम्, कर्तव्यनिष्ठां, गुरुजनवृद्धजनयोः सम्मानभावं तथा समाजस्य प्रति उत्तरदायित्वबोधं विकसितुं महत्त्वपूर्णां भूमिकां निर्वहतः।

अस्मिन् अवसरे उपस्थितैः अतिथिभिः विद्यार्थिनः नियमिताध्ययनाय तथा भारतीयसंस्कृतेः संस्काराणां च संरक्षणाय प्रेरिताः। तैः उक्तं यत् यदि बालकाः बाल्यकालादेव एतादृशानां प्रेरणादायक-ग्रन्थानामध्ययनं कुर्वन्ति, तर्हि तेषां व्यक्तित्वे सकारात्मकं परिवर्तनं भविष्यति तथा ते भविष्ये सुसंस्कृताः उत्तरदायिनश्च नागरिकाः भविष्यन्ति।

/ अंशु गुप्ता