जोधपुरं प्राप्नोत् कर्मचारी जागृति यात्रा
जोधपुरम्, 19 जूनमासः (हि.स.)। अखिलराजस्थानराज्यकर्मचारीसंयुक्तमहासंघस्य (एकीकृत) प्रदेशाध्यक्षस्य गजेन्द्रसिंहराठौडस्य नेतृत्वे दौसानगरात् प्रारब्धा कर्मचारीजागृतियात्रा राजस्थानस्य विभिन्नजनपदान् परिभ्रम्य शुक्रवासरे जोधपुरनगरम् अगच्छत्। अस्मिन्
jodhpur


जोधपुरम्, 19 जूनमासः (हि.स.)। अखिलराजस्थानराज्यकर्मचारीसंयुक्तमहासंघस्य (एकीकृत) प्रदेशाध्यक्षस्य गजेन्द्रसिंहराठौडस्य नेतृत्वे दौसानगरात् प्रारब्धा कर्मचारीजागृतियात्रा राजस्थानस्य विभिन्नजनपदान् परिभ्रम्य शुक्रवासरे जोधपुरनगरम् अगच्छत्।

अस्मिन् अवसरे रातानाडाभाटीचौराहास्थिते चालकानां प्याऊसभागारे कर्मचारीसभायाः आयोजनम् अभवत्। सभायां जोधपुरजनपदस्य समस्तपदाधिकारीणः, संगठनस्य सदस्याः, कर्मचारीणः तथा निवृत्तिवेतनभोगिनः उपस्थिताः आसन्। अस्मिन् काले कर्मचारीणां मागणीनां विषये चर्चा कृता।

कर्मचारीणां प्रमुखमागणीषु आरजीएचएस व्यवस्थायाः जटिलतानां निराकरणं तथा तस्याः निजीबीमाकम्पनीनां हस्तेषु समर्पणस्य विरोधः, समर्पितावकाशस्य लंबितभुगतानस्य शीघ्रप्रारम्भः, संविदाकर्मचारीणां तथा निविदाकर्मचारीणां नियमितीकरणं कृत्वा कर्मचारीपदस्य प्रदानम्, तथा सरकारेण सत्ताग्रहणसमये प्रस्तुतस्य पञ्चविंशतिसूत्रीयमागणीपत्रस्य विषये शीघ्रकार्यवाही च अन्तर्भवन्ति।

महासंघेन उक्तं यत् पञ्चविंशतिसूत्रीयमागणीपत्रे कर्मचारीणां तथा निवृत्तिवेतनभोगिनां सर्वेषां वर्गाणां समस्याः तथा मागण्यः समाविष्टाः सन्ति। तासु आङ्गनवाडीकर्मचारीणां, समाजकल्याणविभागस्य पाककारिणां तथा प्रहरिणां, होमगार्डविभागस्य तथा नागरिकसुरक्षाविभागस्य स्वयंसेवकानां नियमितीकरणं कृत्वा कर्मचारीपदस्य प्रदानम्, मन्त्रालयिककर्मचारीणां प्रथमएसीपीमध्ये ग्रेडपे २८०० इत्यस्य स्थाने ४२०० प्रदानम्, समयबद्धपदोन्नतिः, वाहनचालकानां रिक्तपदानां पूरणम् तथा रोडवेजसंस्थायाः राज्यसर्वकारस्य विभागत्वेन मान्यता इत्यादयः प्रमुखमागण्यः अन्तर्भवन्ति।

महासंघेन चेतावनी प्रदत्ता यत् यदि मागणीषु शीघ्रं सकारात्मककार्यवाही न भविष्यति तर्हि आन्दोलनं अधिकतीव्रं क्रियते।

Hindusthan Samachar / Dheeraj Maithani