Enter your Email Address to subscribe to our newsletters

नवदेहली, १९ जूनमासः (हि.स.)। दिल्ली-नगरस्य उपराज्यपालः तरनजीतसिंह-सन्धू शुक्रवासरे उत्तर-दिल्लीस्थिते सब्जीमण्डी-क्षेत्रे राष्ट्रिय-राजधानी-क्षेत्रस्य प्रथमस्य महिला-आरक्षक-स्थानकस्य उद्घाटनम् अकरोत्। अस्याः पहलस्य उद्देश्यं महिलानां सुरक्षां सुदृढीकर्तुं तासां विरुद्धं क्रियमाणानां अपराधानां निवारण-व्यवस्थां च अधिक-प्रभावशालिनीं कर्तुम् अस्ति। सः उक्तवान् यत् सुरक्षिताः सशक्ताश्च महिलाः एव प्रगतिशील-समाजस्य आधारशिला भवन्ति। अस्मिन् अवसरे दिल्ली--आरक्षक-आयुक्तः सतीश-गोलचा, अन्ये आरक्षक-अधिकारिणः तथा महिला-आरक्षक-स्थानकस्य प्रभारी-अधिकारिणी लक्ष्मी-सिंह: अपि उपस्थिताः आसन्।
उपराज्यपालः सामाजिक-माध्यमे एक्स इति मञ्चे प्रकाशिते सन्देशे उक्तवान् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः 'नारी-शक्तिः राष्ट्रनिर्माणस्य आधारशिला अस्ति' इति दृष्टिकोणेन प्रेरितम् एतत् महत्त्वपूर्णं संस्थानं महिलाभ्यः निर्भयतया स्व-परिवादान् पञ्जीकर्तुं, न्यायं प्राप्तुं, साहाय्यं च लब्धुं सहयोगात्मकं सुरक्षितं च वातावरणं प्रदास्यति। तेन दिल्ली-पुलिसस्य महिला-सुरक्षासम्बद्धानां प्रमुख-प्रयत्नानां, यथा 'पिङ्क-बूथ' तथा 'सशक्ति'-अभियानस्य, अपि समीक्षा कृता। राजधानी-नगरे एतादृशानां अधिक-केन्द्राणां स्थापनाय पुलिस-विभागाय निर्देशाः अपि प्रदत्ताः, येन महिला-अनुकूल--आरक्षक-व्यवस्था तथा त्वरित-विधि-प्रवर्तनस्य नूतनः मानदण्डः स्थाप्येत।
उपराज्यपालः पुनरपि उक्तवान् यत् सुरक्षिता सशक्ता च महिला एव प्रगतिशील-समाजस्य आधारशिला अस्ति। वयं सर्वे मिलित्वा सुरक्षितायाः समावेशिन्याः सशक्तायाश्च विकसित-दिल्ली-नगर्याः निर्माणाय निरन्तरं कार्यं करिष्यामः। यदि वयं किमपि अपराधं पश्येम अथवा स्वमातृणां, भगिनीनां, परिवारस्य वा सदस्येषु अन्यायं भवति इति जानीयाम, तर्हि अवश्यमेव स्वरम् उदीरयेम अथवा आरक्षक-विभागं सूचयेम। एषः प्रत्यक्षः उपायः अस्ति, येन महिलानां विरुद्धं क्रियमाणानां अपराधानां प्रभावी-निवारणं भविष्यति।
Hindusthan Samachar / Divya Ranjan