Enter your Email Address to subscribe to our newsletters

सूरजपुरम्, जूनमासः १९ (हि.स.)। द्वादशतमस्य अन्ताराष्ट्रिय-योगदिवसस्य अवसरे २१ जूनमासे प्रातः सप्तवादने सूरजपुर-नगरस्य रंगमञ्चे जनपदस्तरीयः योगकार्यक्रमः आयोजयिष्यते। अस्मिन् कार्यक्रमे सांसदः चिन्तामणिमहाराजः मुख्यातिथिरूपेण सम्मिलिष्यति तथा सामूहिकयोगाभ्यासे भागं ग्रहीष्यति।
जनपदप्रशासनद्वारा आयोजितेऽस्मिन् कार्यक्रमे जनप्रतिनिधयः, अधिकारी-कर्मचारिणः, विद्यार्थिनः, सामाजिक-संस्थाः तथा सामान्यनागरिकाः च सहभागिनः भविष्यन्ति। अस्य कार्यक्रमस्य उद्देश्यं योगविषये जनजागरूकतावर्धनं तथा स्वस्थजीवनशैली-स्वीकाराय प्रेरणां प्रदातुं वर्तते।
सांसदः चिन्तामणिमहाराजः तथा उपायुक्त: च जनपदवासिनः अधिकाधिकसंख्यया कार्यक्रमे भागग्रहणाय आह्वानं कृतवन्तौ। ताभ्यां उक्तं यत् योगः भारतीयसंस्कृतेः अमूल्य: धरोहरः अस्ति, यः शारीरिक-मानसिक-आध्यात्मिकस्वास्थ्यं सुदृढं करोति।
अस्मिन् वर्षे अन्ताराष्ट्रिय-योगदिवसस्य थीम “योग फॉर हेल्दी एजिंग” इति निर्धारितम् अस्ति, या स्वस्थां, सक्रियां तथा सम्मानपूर्णां वृद्धावस्थां प्रोत्साहयति तथा शारीरिक-मानसिक-भावनात्मक-स्वास्थ्यस्य सुदृढीकरणे केन्द्रिता अस्ति।
जनपद-प्रशासनं नागरिकान् अपि आह्वयति यत् ते निर्धारितसमये रंगमञ्चे उपस्थिताः भूत्वा सामूहिकयोगाभ्यासे भागं गृह्णीयुः तथा योगस्य जन-जनपर्यन्तं प्रसारणे योगदानं कुर्वन्तु।
Hindusthan Samachar / Divya Ranjan