Enter your Email Address to subscribe to our newsletters

शिमला, 19 जूनमासः (हि.स.)।
स्वास्थ्यमन्त्री धनीरामशाण्डिलः शुक्रवासरे शिमलानगरे स्थितस्य इन्दिरागान्धी चिकित्सामहाविद्यालयस्य चिकित्सालयस्य च कर्कटरोगचिकित्सालयस्य आकस्मिकनिरीक्षणं कृतवान्। अस्मिन् अवसरे तेन कर्कटरोगविभागस्य परिभ्रमणं कृत्वा तत्र उपविष्टैः रोगिभिः तेषां परिजनैः च सह प्रत्यक्षसंवादः कृतः तथा चिकित्सालये उपलब्धानां उपचारव्यवस्थानां स्वास्थ्यसुविधानां च अवलोकनं कृतम्।
निरीक्षणस्य समये स्वास्थ्यमन्त्रिणा रोगिभ्यः उपचारस्य औषधानां उपलब्धेः परीक्षणसुविधानां चिकित्सालयप्रशासनस्य कार्यप्रणाल्याः च विषये सूचना संगृहीता। तेन चिकित्सालये उपविष्टैः अनेकैः रोगिभिः तेषां परिजनैः च सह संवादः कृत्वा तेषां समस्याः अपि श्रुताः। मन्त्रिणा अधिकारिणः निर्देशिताः यत् कर्कटरोगिभ्यः उपचारकाले कापि असुविधा न भवेत् तथा तेषां आवश्यकतानां विषये विशेषध्यानं दीयताम्।
निरीक्षणानन्तरं स्वास्थ्यमन्त्री धनीरामशाण्डिलः उक्तवान् यत् इन्दिरागान्धी चिकित्सामहाविद्यालये कर्कटरोगिभ्यः उत्तमाः स्वास्थ्यसेवाः प्रदातुं निरन्तरप्रयत्नाः क्रियमाणाः सन्ति। तेन उक्तं यत् चिकित्सालये अधुना तादृश्यः अनेके सुविधाविशेषाः उपलब्धाः सन्ति येषां तुलना देशस्य प्रमुखेषु चिकित्सासंस्थानेषु गण्यमानेन पीजीआई संस्थानेन सह कर्तुं शक्यते। तेन चिकित्सालयप्रशासनेन रोगिभ्यः प्रदीयमानासु चिकित्सासेवासु सन्तोषः अपि व्यक्तः।
स्वास्थ्यमन्त्री उक्तवान् यत् प्रदेशे कर्कटरोगस्य प्रकरणानां निरन्तरवृद्धिः चिन्तायाः विषयः अस्ति। अतः सर्वकारस्य प्रयत्नः अस्ति यत् राज्यस्य जनाः उपचारार्थं राज्यात् बहिः गन्तुं न विवशाः भवेयुः तथा स्वस्मिन् राज्ये एव तेषां कृते उत्तमाः स्वास्थ्यसुविधाः उपलब्धाः भवेयुः। तेन उक्तं यत् कर्कटरोगोपचारसम्बद्धव्यवस्थानां अधिकसुदृढीकरणार्थं सर्वकारः गम्भीरतया कार्यं करोति।
तेन सूचितं यत् कर्कटरोगविभागस्य क्षमतावृद्धेः आधुनिकचिकित्सायन्त्राणां उपलब्धेः विशेषज्ञवैद्यानां संख्यावृद्धेः च विषयेषु अपि विचारः क्रियते। एतदतिरिक्तं रोगिभ्यः समये परीक्षणं उपचारश्च उपलब्धौ भवेताम् इति उद्देश्येन आवश्यकपदानि अपि स्वीक्रियन्ते, येन कर्कटरोगवत् गम्भीरव्याधिना पीडिताः जनाः उत्तमाः स्वास्थ्यसेवाः प्राप्तुं शक्नुयुः।
धनीरामशाण्डिलः उक्तवान् यत् अस्मिन् विषये मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खूना सह अपि चर्चा क्रियते। सर्वकारस्य लक्ष्यं वर्तते यत् इन्दिरागान्धी चिकित्सामहाविद्यालयं सहित्य प्रदेशस्य अन्येषु प्रमुखस्वास्थ्यसंस्थानेषु अपि कर्कटरोगिभ्यः उपचारसुविधानां अधिकविस्तारः क्रियेत। तेन उक्तं यत् राज्यसर्वकारः गुणवत्तायुक्ताः स्वास्थ्यसेवाः जनानां समीपं प्रापयितुं प्रतिबद्धः अस्ति तथा स्वास्थ्यक्षेत्रस्य आधारभूतसंरचना निरन्तरं सुदृढीक्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani