Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १९ जूनमास: (हि.स.)। मध्यप्रदेश-प्रवासे आगता राष्ट्रपतिः द्रौपदीमुर्मु: शुक्रवासरे पश्चिमबङ्गस्य कलैकुण्ड-विमानस्थानकाय प्रस्थितवती। अद्य अपराह्णे इन्दौरस्थिते देवी-अहिल्याबाई-होल्कर-अन्ताराष्ट्रिय-विमानस्थानके राज्यपालः मङ्गुभाई-पटेलः, मुख्यमन्त्री डॉ.मोहन-यादवः, जनप्रतिनिधयः, सैन्य-अधिकारिणः तथा वरिष्ठ-प्रशासनिक-अधिकारिणः ताभ्यः भावपूर्णां विदायम् अयच्छन्।
राष्ट्रपतिः शुक्रवासरस्य प्रातः खण्डवा-जनपदस्थिते ओङ्कारेश्वरे विश्व-सिकल-सेल-दिवसस्य कार्यक्रमे सहभागित्वा अपराह्णे इन्दौर-विमानस्थानकम् आगता। ततः स्वयात्रायाः प्रथमं चरणं सम्पन्न्य पूर्वनिर्धारित-कार्यक्रमाणां कृते प्रस्थितवती।
इन्दौर-जनपदप्रशासनस्य अनुसारं राष्ट्रपतिः इन्दौरतः पश्चिमबङ्गस्य कलैकुण्ड-विमानस्थानकाय प्रस्थितवती। मध्यप्रदेशस्य पञ्चदिवसीय-प्रवासस्य द्वितीयचरणे सा शनिवासरे, २० जून-दिनाङ्के सायं ६:१० वादने वायुयानद्वारा जबलपुर-विमानस्थानकम् आगमिष्यति। ततः सा सर्किट-हाउस प्रति गमिष्यति तथा तत्रैव रात्रिविश्रामं करिष्यति।
अनन्तरं २१ जून-दिनाङ्के प्रातः ७:२० वादने जबलपुरे आयोजिते अन्ताराष्ट्रिय-योग-दिवस-कार्यक्रमे सहभागिनी भविष्यति। ततः परं प्रातः ११:४० वादने रानी-दुर्गावती-विश्वविद्यालयस्य ३६-तमे दीक्षान्त-समारोहे मुख्यातिथिरूपेण उपस्थास्यति।
ततः अपराह्णे १:२० वादने जबलपुर-विमानस्थानकात् ग्वालियर-नगराय प्रस्थितवती भविष्यति तथा २:२० वादने ग्वालियरम् आगमिष्यति। ततः हेलिकॉप्टर-द्वारा कुनो-राष्ट्रीय-उद्यानाय गमिष्यति। सा अपराह्णे ३:३५ वादने कुनो-अतिथिगृहम् आगमिष्यति तथा तत्रैव रात्रिविश्रामं करिष्यति। २२ जून-दिनाङ्के प्रातः ६:३० वादने कुनो-राष्ट्रीय-उद्यानस्य भ्रमणं करिष्यति।
तदनन्तरं प्रातः १०:२० वादने कुनो-हेलिपदात् प्रस्थित्य ११:०५ वादने ग्वालियर-विमानस्थानकम् आगमिष्यति। ततः प्रातः ११:१५ वादने दिल्ली-नगराय प्रस्थितवती भविष्यति। राष्ट्रपतेः पञ्चदिवसीय-प्रवासस्य निमित्तं प्रशासनं पूर्णतया सज्जम् अस्ति तथा सुदृढाः सुरक्षाव्यवस्थाः कृताः सन्ति। सर्वेषु कार्यक्रम-स्थलेषु उच्च-सुरक्षा-व्यवस्था तथा नो-फ्लाइङ्-जोन इति क्षेत्रं घोषितम् अस्ति।
इन्दौर-विमानस्थानके राज्यपालः मङ्गुभाई-पटेलः, मुख्यमन्त्री डॉ.मोहन-यादवः, नगरीय-विकास-आवास-मन्त्री कैलाश-विजयवर्गीयः, जलसंसाधन-मन्त्री तुलसीराम-सिलावटः, सांसदः शङ्कर-ललवानी, विधायकाः महेन्द्र-हार्डिया, रमेश-मेन्दोला, मालिनी-गौड:, महापौरः पुष्यमित्र-भार्गवः च राष्ट्रपतिं सस्नेहम् अविदाययन्।
अस्मिन् अवसरे कमाण्डेण्ट् लेफ्टिनेण्ट-जनरलः विजय-बी.नायरः, सम्भागायुक्तः डॉ.सुदाम-खाडे, पुलिस-आयुक्तः सन्तोष-सिंहः, अन्ये जनप्रतिनिधयः तथा वरिष्ठ-अधिकारिणः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan