Enter your Email Address to subscribe to our newsletters




खण्डवानगरम्, १९ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः सिकल-सेल-एनीमिया-रोगस्य विषये जन-जागरूकतां, समये परीक्षणम् तथा उपचारस्य प्रोत्साहनं च बलवतीकुर्वती अवदत् यत् मध्यप्रदेशे सवा-कोटि-जनानां परीक्षण-लक्ष्यम् निर्धारित-समयात् पूर्वमेव सम्पन्नम् अस्ति। राष्ट्रीय-सिकल-सेल-एनीमिया-उन्मूलन-अभियानस्य अन्तर्गतं मध्यप्रदेशेन या बहुआयामी-सफलताः प्राप्ताः, तासां कृते अहं राज्य-सर्वकारस्य प्रशंसां करोमि।
राष्ट्रपतिः शुक्रवासरे मध्यप्रदेशस्य खण्डवा-जनपदस्य ओंकारेश्वरे विश्व-सिकल-सेल-दिवसस्य अवसरे आयोजितं राज्यस्तरीयं कार्यक्रमम् सम्बोधयन्ती आसीत्। सा अवदत् यत् अन्ताराष्ट्रिय-सिकल-सेल-दिवसस्य निमित्तम् आयोजितः अयं विशेषः कार्यक्रमः स्वास्थ्य-क्षेत्रस्य महत्त्वपूर्ण-समस्याया: समाधान-दिशि सार्थकः प्रयासः अस्ति। अस्य आयोजनस्य सफलतायां सम्बद्धानां सर्वेषां कार्यं प्रशंसनीयम् अस्ति।
सा अवदत् यत् वर्षे २०२३ तमे राष्ट्रीय-अभियानस्य शुभारम्भसमये यानि लक्ष्याणि राष्ट्रस्य पुरतः स्थापितानि आसन्, तेषु परीक्षण-लक्ष्यं समयात् पूर्वमेव सम्पन्नम्। मम अवगतं कृतम् अस्ति यत् नवजात-शिशुभ्यः आरभ्य चत्वारिंशद्वर्षीय-आयुपर्यन्तं सप्त-कोटि-जनानां परीक्षण-लक्ष्यं पूर्णम् अभवत्। एषा न लघ्वी उपलब्धिः, अपितु विश्वस्य आनुवंशिक-रोग-परीक्षणेषु महत्तमासु पहलासु अन्यतमा अस्ति। अस्यां सिद्धौ मध्यप्रदेशस्य महत्त्वपूर्णं योगदानम् अस्ति। प्रदेशे अद्यावधि सवा-कोट्यधिक-जनानां परीक्षणं सम्पन्नम् अस्ति, तेषां बहुभ्यः आनुवंशिक-परामर्श-पत्राणि अपि प्रदत्तानि सन्ति।
राष्ट्रपतिः अवदत् यत् भारत-सर्वकारेण सिकल-सेल-सम्बद्धा समस्या अत्यन्त-गम्भीरतया स्वीकृता। गतत्रिवर्षेषु समग्र-दृष्ट्या यत् कार्यं कृतम्, तत् अत्यन्तं प्रशंसनीयम्। प्रायः त्रिवर्षपूर्वं प्रधानमन्त्री नरेन्द्रमोदी-महोदयेन मध्यप्रदेशस्य शहडोलतः राष्ट्रीय-सिकल-सेल-एनीमिया-उन्मूलन-अभियानस्य शुभारम्भः कृतः। अस्याः पहलायाः पृष्ठे केवलं दृढः सङ्कल्पः नासीत्, अपितु अस्याः समस्यायाः सर्वेषां पक्षाणां समुचित-समाधानाय दूरदर्शिता अपि आसीत्।
सा अवदत् यत् केन्द्रीय-स्वास्थ्य-मन्त्रालयस्य तथा केन्द्रीय-जनजातीय-कार्य-मन्त्रालयस्य संयुक्त-प्रतिमानरूपेण देशे प्रथमवारम् एतादृशम् अभियानम् आरब्धम्। एतत् केवलं स्वास्थ्य-समस्या इति न दृष्टम्, अपितु जनजातीय-स्वास्थ्यस्य, आनुवंशिक-जागरूकतायाः, निवारक-स्वास्थ्य-सेवायाः तथा सामाजिक-व्यवहार-परिवर्तनस्य अभियानरूपेण परिगृहीतम्। अस्य अभियानस्य पृष्ठभूमौ वैज्ञानिक-सामाजिक-अध्ययनानां महत्त्वपूर्णं योगदानम् अस्ति।
राष्ट्रपतिः अवदत् यत् भारतीय-चिकित्सा-अनुसन्धान-परिषद्, आदिवासी-स्वास्थ्य-अनुसन्धान-संस्थानम्, एम्स, राष्ट्रीय-स्वास्थ्य-अभियानं, विश्व-स्वास्थ्य-सङ्गठनम् तथा विविध-राज्य-सर्वकाराः अस्य विषयस्य विभिन्न-पक्षेषु अध्ययनं कृतवन्तः। तेषां अध्ययनानुसारं भारते प्रायः द्वि-कोट्यधिकाः अथवा द्वि-अर्ध-कोटि-जनाः सिकल-सेल-जीनस्य वाहकाः भवितुम् अर्हन्ति, लक्षशः जनाः सक्रिय-रोगेण पीडिताः सन्ति। अस्य रोगस्य प्रभावः मध्यभारतस्य जनजातीय-क्षेत्रेषु सर्वाधिकः दृश्यते। अनेके परिवाराः वंशपरम्परया अस्मात् रोगात् पीडिताः आसन्, किन्तु तेषां रोगस्य नामापि न ज्ञातम् आसीत्। अध्ययनैः ज्ञातं यत् जनजातीय-प्रदेशेषु अस्य रोगस्य प्रसारः सामान्य-जनसंख्यायाः अपेक्षया बहुगुणं अस्ति। अतः सार्वजनिक-स्वास्थ्यं, जनजातीय-कल्याणम्, आनुवंशिक-विज्ञानम् तथा डिजिटल-अनुवीक्षणं संयोज्य देशव्यापी-अभियानम् आरब्धम्। देशस्य सप्तदश-राज्येषु सञ्चाल्यमाने अस्मिन् अभियाने राज्यैः अपि सक्रिय-सहभागिता प्रदर्शिता।
सा अवदत् यत् अस्य अभियानस्य परिकल्पना मां विशेषतया प्रभावितवती। तस्याः मते अस्य अभियानस्य त्रयः प्रमुखाः आयामाः सन्ति— प्रथमः, व्यापक-जन-जागरूकता तथा विवाहपूर्व-आनुवंशिक-परामर्शः; द्वितीयः, व्यापक-परीक्षणेन समये रोग-परिचयः; तृतीयः, समग्र-स्वास्थ्य-प्रबन्धनस्य तथा निरन्तर-स्वास्थ्य-सेवायाः सुनिश्चितीकरणम्।
राष्ट्रपतिः अवदत् यत् सार्वजनिक-स्वास्थ्यस्य दृष्ट्या देशे प्रथमवारम् एतावती विशाल-जनसंख्यायाः आनुवंशिक-परीक्षणं डिजिटल-अनुवीक्षणेन सह क्रियते। अभियान-पद्धत्याः परिणामस्वरूपम् अद्यावधि प्रायः द्व्यर्ध-लक्ष-जनाः सिकल-सेल-रोगेण पीडिताः इति ज्ञाताः, विंशति-लक्षाधिकाः वाहकाः अपि परिचिताः अभवन्। वाहकानां बहुसङ्ख्या अपि गम्भीरा समस्या अस्ति, यतः तेषु सामान्यतया रोग-लक्षणानि न दृश्यन्ते। सन्तोषस्य विषयः अस्ति यत् केन्द्र-राज्य-सर्वकाराभ्यां रोगिणां वाहकानां च परिचयेन सह तेषां समुचित-स्वास्थ्य-सेवायाः व्यवस्थायाम् अपि प्रशंसनीयं कार्यं कृतम्।
सा अवदत् यत् मध्यप्रदेशे बहुस्तरीय-प्रयत्नानां फलरूपेण प्रभावित-जनानां, गर्भवती-स्त्रीणां तथा नवजात-शिशूनां कृते पॉइण्ट्-ऑफ-केयर-परीक्षण-सुविधा आयुष्मान्-आरोग्य-मन्दिर-स्तरपर्यन्तं विस्तृता अस्ति। गतवर्षे “स्वस्थ-नारी, सशक्त-परिवार-अभियानस्य” अन्तर्गतं चत्वारि-लक्षाधिक-स्त्रीणां सिकल-सेल-परीक्षणेन मध्यप्रदेशः कीर्तिमानं स्थापितवान्। प्रदेशे विद्यार्थिनां विशेषतः जनजातीय-विद्यार्थिनां परीक्षणं, परामर्शः, उपचारः तथा स्वास्थ्य-सेवाभिः संयोजनं च निरन्तरं क्रियते। दुर्गम-जनजातीय-प्रदेशेषु चल-चिकित्सा-एककानां माध्यमेन परीक्षणम् अपि सततं प्रचलति।
राष्ट्रपतिः अवदत् यत् गतवर्षे विश्व-सिकल-सेल-दिवसे “सिकल-मित्र” इति पहलायाः शुभारम्भः कृतः। अस्याः अन्तर्गतं जन-जागरूकता-वर्धनाय, रोगिणां सहाय्याय तथा शासकीय-स्वास्थ्य-सेवाभिः तेषां संयोजनाय शासकीय-अशासकीय-संस्थानानां प्रतिनिधयः, स्वयंसेवी-सङ्घटनानां सदस्याः तथा एनसीसी-कैडेट्-विद्यार्थिनः प्रशिक्षिताः। मम विश्वासः अस्ति यत् सर्वेषां राज्याणां समन्वित-प्रयत्नैः वयं २०४७ तमवर्षात् पूर्वमेव देशात् सिकल-सेल-सम्बद्ध-रोगान् उन्मूलयितुं सफलाः भविष्यामः। मध्यप्रदेशे देशस्य सर्वाधिक-सङ्ख्यया जनजातीय-समुदायः निवसति। अतः मम आशा अस्ति यत् मध्यप्रदेशः जनजातीय-विकासे अपि नूतन-कीर्तिमानान् स्थापयिष्यति।
अस्मात् पूर्वं राष्ट्रपतिना दीप-प्रज्वालनेन राज्यस्तरीय-कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवसरे राज्यपालः मङ्गुभाई-पटेलः, मुख्यमन्त्री डॉ.मोहनयादवः च उपस्थितौ आस्ताम्। उभाभ्यां राष्ट्रपतेः स्वागतं कृतम्। राष्ट्रपतिः राष्ट्रीय-सिकल-सेल-एनीमिया-उन्मूलन-अभियान-२०४७ अन्तर्गतं उत्कृष्ट-कार्यं कृतवतीनां ग्राम-पञ्चायतीनां प्रतिनिधीन् तथा अधिकारिणः सम्मानितवती।
Hindusthan Samachar / Divya Ranjan