ओडिशा-प्रदेशे प्रधानमन्त्री २५,०१६ कोटि-रूप्यक-परिमितायाः कोयला-गैसीकरण-परियोजनायाः शिलान्यासं करिष्यति
नवदिल्ली, 19 जून (हि.स)।प्रधानमन्त्री नरेन्द्रमोदी देशस्य ऊर्जासुरक्षां सुदृढां कर्तुम्, आयातप्रतिस्थापनं प्रोत्साहयितुम्, औद्योगिकस्वावलम्बनं च वर्धयितुं शनिवासरे (२० जून) ओडिशाराज्यस्य झारसुगुडाजनपदस्य लखनपुरे २५०१६ कोटिरूप्यकपरिमितायाः कोयला-गैस
प्रधानमंत्री नरेन्द्र मोदी का फाइल फोटो


नवदिल्ली, 19 जून (हि.स)।प्रधानमन्त्री नरेन्द्रमोदी देशस्य ऊर्जासुरक्षां सुदृढां कर्तुम्, आयातप्रतिस्थापनं प्रोत्साहयितुम्, औद्योगिकस्वावलम्बनं च वर्धयितुं शनिवासरे (२० जून) ओडिशाराज्यस्य झारसुगुडाजनपदस्य लखनपुरे २५०१६ कोटिरूप्यकपरिमितायाः कोयला-गैसीकरणपरियोजनायाः आधारशिलां स्थापयिष्यति।

कोयलामन्त्रालयेन शुक्रवासरे प्रकाशिते वक्तव्ये उक्तं यत् कोयलागैसीकरण-प्रोत्साहनप्रयत्नेन कोयलोत्पादकक्षेत्रेषु पञ्चविंशतिपरियोजनासु २.५ तः ३ लक्षकोटिरूप्यकपर्यन्तं निवेशः प्रोत्साहितः भविष्यति तथा च प्रायः पञ्चाशत्सहस्राणि प्रत्यक्षाप्रत्यक्षरोजगारावसराः सृज्यन्ते इति अपेक्षा अस्ति।

लखनपुरपरियोजना देशस्य प्रथमा वाणिज्यिकस्तरस्य कोयलात् अमोनियमनाइट्रेटोत्पादनपरियोजना अस्ति तथा च एषा ऐतिहासिकी उपलब्धिः मन्यते। एषा परियोजना एमसीएल संस्थायाः अधिकारक्षेत्रे विद्यमानायां प्रायः ३५० एकडभूमौ निर्मास्यते। अस्यै आवश्यकाः अनुमतयः पूर्वमेव प्राप्ताः सन्ति तथा च शिलान्याससमारोहानन्तरं कार्यारम्भस्य सम्भावना वर्तते।

कोयलामन्त्रालयेन एतादृशपरियोजनानां कृते कोयलायुक्तभूमेः उपयोगाय अनुमतिः प्रदत्ता अस्ति तथा च प्रोत्साहनयोजनायाः अन्तर्गतं १३५० कोटिरूप्यकाणां साहाय्यं प्रदीयते।

कोयलामन्त्रालयस्य अनुसारम् अस्याः परियोजनायाः विकासकार्यं भारत हेवी इलेक्ट्रिकल लिमिटेड (बीएचईएल) तथा कोल इण्डिया लिमिटेड (सीआईएल) इत्येतयोः संयुक्तोद्यमेन स्थापितया भारत कोल गैसीफिकेशन एण्ड केमिकल्स लिमिटेड (बीसीजीसीएल) संस्थया क्रियते। एषा परियोजना बीएचईएल संस्थया स्वदेशे विकसितां कोयलागैसीकरणप्रौद्योगिकीम् उपयुज्य प्रतिदिनं २००० टनपरिमितम् अमोनियमनाइट्रेटं उत्पादयिष्यति।

एतदर्थम् एप्रिलमासे बीसीजीसीएल तथा सीआईएल संस्थायाः अनुषङ्गिकसंस्था महानदी कोलफील्ड्स लिमिटेड (एमसीएल) इत्येतयोः मध्ये भूमिपट्टसम्बद्धः सम्झौतापत्रः सम्पन्नः आसीत्।

सर्वकारेण कोयलागैसीकरणस्य विशालसम्भावनाः दृष्ट्वा देशव्यापिनः स्थलीयकोयला लिग्नाइटगैसीकरणपरियोजनानां संवर्धनार्थं ४६००० कोटिरूप्यकपर्यन्तं कुलपरिव्यययुक्ताः प्रोत्साहनयोजनाः अनुमोदिताः सन्ति।

एषा परियोजना भविष्यत्कालीनानां कोयलागैसीकरणपरियोजनानां कृते आदर्शरूपेण कार्यं करिष्यति तथा च भारतस्य विनिर्माणक्षेत्रे स्वावलम्बी औद्योगिकशक्तिरूपेण विकासस्य दृष्टिकोणे महत्त्वपूर्णं योगदानं दास्यति।

भारतः विश्वे कोयलस्य द्वितीयः बृहत्तमः उत्पादकः उपभोक्ता च अस्ति तथा च कोल इण्डिया लिमिटेड वैश्विकस्तरे सर्वात् बृहती कोयलोत्पादकसंस्था अस्ति। भारतस्य समीपे ४०० अर्बुदटनाधिकं विश्वस्य पञ्चमं बृहत्तमं कोयलाभण्डारम् अस्ति।

कोयलागैसीकरणस्य माध्यमेन एतेषां संसाधनानाम् उपयोगः कृत्वा देशस्य औद्योगिकपरिदृश्ये महत्त्वपूर्णः परिवर्तनः आनयितुं शक्यते। तेन सह महत्त्वपूर्णापक्वमालरसायनद्रव्येषु आयातनिर्भरतायाः न्यूनीकरणमपि सम्भवति।

उल्लेखनीयम् अस्ति यत् भारतः सम्प्रति प्रतिवर्षं प्रायः २.७ लक्षकोटिरूप्यक-परिमितानाम् अन्तिमोपयोगरासायनिक-मध्यवर्तीउत्पादानाम् आयातं करोति। कोयलागैसीकरणेन आयातन्यूनीकरणम्, विदेशीमुद्रायाः संरक्षणम्, स्वदेशीय-विनिर्माणक्षमतायाः सुदृढीकरणम्, औद्योगिकविकासस्य आर्थिक-स्वावलम्बनस्य च संवर्धनं भवति।

------------

Hindusthan Samachar / Dheeraj Maithani