जैविककृषेः सामर्थ्येन पूर्वोत्तरभारतदेश: भारतस्य अग्रिमविकासप्रेरकः भवितुमर्हति : वित्तमन्त्री सीतारमणः
नवदेहली, जूनमास: १९ दिनाङ्कः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः शुक्रवासरे उक्तवती यत् पूर्वोत्तरप्रदेशः स्वस्य सततकृषेः तथा जैविकोत्पादानां सामर्थ्यस्य समुचितोपयोगेन भारतस्य अग्रिमविकासप्रेरकः भवितुं समर्थः अस्ति। वैश्विकबाजारेषु विश्व
मेघालय के री-भोई जिले के भोइरिमबोंग में लोगों को संबोधित करते हुए सीतारमण


मेघालय के री-भोई जिले के भोइरिमबोंग में लोगों को संबोधित करते हुए सीतारमण


नवदेहली, जूनमास: १९ दिनाङ्कः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः शुक्रवासरे उक्तवती यत् पूर्वोत्तरप्रदेशः स्वस्य सततकृषेः तथा जैविकोत्पादानां सामर्थ्यस्य समुचितोपयोगेन भारतस्य अग्रिमविकासप्रेरकः भवितुं समर्थः अस्ति। वैश्विकबाजारेषु विश्वसनीयतायाः कारणात् मेघालयराज्यम् अस्य प्रदेशस्य नेतृत्वं कर्तुं विशेषस्थानमधिगच्छति।

मेघालयस्य री-भोई जनपदस्य भोइरिमबोंग: इत्यत्र पूर्वोत्तरभारतस्य बृहत्तमस्य जैविक-मसालासंसाधन-एककस्य उद्घाटनसमारोहे वित्तमन्त्री अवदत् यत् कृषेः भविष्यं केवलम् अधिकोत्पादनकर्तृषु न निहितम्, अपितु उत्तमगुणयुक्तान्, स्वच्छान्, विश्वसनीयान् तथा प्रीमियमगुणवत्तायुक्तान् उत्पादान् प्रदातृषु एव निहितम्।

सा पुनरवदत्— “यदा मेघालयस्य कृषकाः प्रगतिं करिष्यन्ति, तदा सम्पूर्णः पूर्वोत्तरप्रदेशः प्रगतिं करिष्यति। यदा पूर्वोत्तरप्रदेशः प्रगतिं करिष्यति, तदा भारतस्य विकासयात्रायाः नूतनः प्रेरकः भविष्यति।”

सीतारमणः मेघालयसर्वकारं, महिला-समूहान् तथा उद्यमिनः राज्ये जैविककृष्याः आन्दोलनं प्रवर्धयितुं कृतप्रयत्नान् अभिनन्दितवती।

तया मेघालयस्य प्रतिस्पर्धात्मक-सामर्थ्यमपि प्रतिपादितं यत् राज्यस्य विशालकृषिप्रधानराज्यैः सह उत्पाद-परिमाणस्य आधारेण स्पर्धां कर्तुं आवश्यकता नास्ति, यतः भविष्यं विश्वसनीयगुणवत्तायुक्तानां विश्वसनीय-उत्पादकानां च अस्ति।

अस्मिन् अवसरे मेघालयस्य मुख्यमन्त्री कॉनराड के.संगमा, सिक्किमस्य मुख्यमन्त्री प्रेमसिंहतमाङ्ग: गोले, तथा मेघालयस्य उपमुख्यमन्त्री प्रेस्टोनटिन-सोंग: अपि उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan