Enter your Email Address to subscribe to our newsletters

हुगली, 19 जूनमासः (हि.स.)।
पश्चिमबङ्गदिवसस्य अवसरे जूनमासस्य विंशतितमे दिने तारकेश्वरे आयोज्यमाने राज्यसर्वकारस्य विशेषकार्यक्रमे प्रधानमन्त्रिणः नरेन्द्रमोदिनः पश्चिमबङ्गस्य मुख्यमन्त्रिणः शुभेन्दु अधिकारिणश्च सहभागितायाः सम्भावना वर्तते। अस्य कार्यक्रमस्य कृते आरामबागविभागस्य विभिन्नक्षेत्रेभ्यः बहुसंख्यके जनाः तारकेश्वरं नेतुं व्यवस्था कृता अस्ति, येन सामान्ययानसेवासु प्रतिकूलः प्रभावः भवितुमर्हति।
प्रशासनेन बहुसंख्याकानि यानानि कार्यक्रमार्थं नियुक्तानि सन्ति। अतः शुक्रवासरस्य सायंकालात एव अनेकेषु मार्गेषु यानानां संख्या न्यूना भवितुमर्हति, शनिवासरे तु अधिकांशयानानि मार्गेभ्यः अदृश्यानि भविष्यन्ति इति आशङ्का व्यक्ता अस्ति। एतेन सामान्ययात्रिकाणां महती क्लेशावस्था उत्पद्येत।
पुरशुडाक्षेत्रस्य भाजपा विधायकः विमानघोषः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः आगमनं प्रति जनानां मध्ये महान् उत्साहः वर्तते तथा च बहुसंख्यकाः जनाः स्वेच्छया तारकेश्वरं गन्तुमिच्छन्ति। तेन उक्तं यत् यानानां सह लघुयानानामपि व्यवस्था कृता अस्ति। यात्रिकाणामसुविधा न्यूनीकर्तुं केचन यानानि नियमितमार्गेषु संचालयितुं प्रयत्नः अपि क्रियते। तेन एतदपि उक्तं यत् रेलसेवा उपलब्धा अस्ति, अतः जनानां कृते वैकल्पिकी सुविधा भविष्यति।
हुगली अन्तरप्रदेशीय यानस्वामिसंघस्य सचिवः गौतमधुले उक्तवान् यत् प्रशासनेन संघस्य अनेके यानाः कार्यक्रमार्थम् अधिगृहीताः सन्ति। अन्येभ्यः जिल्हाभ्यः अपि यानानि आनीयन्ते। तेन उक्तं यत् शुक्रवासरस्य सायंकालात एव अनेके यानाः स्वनियमितमार्गेभ्यः अपसारिताः भविष्यन्ति तथा च शनिवासरे अधिकांशयानानि मार्गेषु न दृश्यन्ते।
आरामबाग बस मिनीबस ऑपरेटर्स वेलफेयर एसोसिएशन इत्यस्याः सचिवा मधुमिता भट्टाचार्या उक्तवती यत् प्रशासनस्य निर्देशानुसारं यानानां कृते शुक्रवासरस्य सायंकालात एव प्रतिवेदनार्थम् उपस्थितिः निर्दिष्टा अस्ति। अतः सामान्ययात्रिकसेवाः प्रभाविताः भविष्यन्ति। तथापि संस्था केषुचित् महत्त्वपूर्णमार्गेषु सीमितसंख्यायां यानानि संचालयितुं प्रयतते।
तृणमूलकाङ्ग्रेसदलस्य नेता पलाशरायः उक्तवान् यत् अतीते अपि बृहत्सु राजनैतिकेषु प्रशासनिकेषु वा कार्यक्रमेषु कतिचन यानानि सामान्यजनानां कृते मुक्तानि स्थाप्यन्ते स्म। तेन उक्तं यत् जनानां न्यूनतमपरिवहनसुविधायाः सुनिश्चितीकरणं सर्वकारस्य उत्तरदायित्वम् अस्ति तथा च अस्मिन् विषये विशेषं ध्यानं दातव्यम्।
विशेषचिन्तायाः विषयः अयं यत् शनिवासरे जमाईषष्ठीपर्व अपि अस्ति। अस्मिन् अवसरे बहुसंख्यकाः जनाः बान्धवानां गृहेषु आगमनगमनार्थं सार्वजनिकपरिवहनसेवायाः उपयोगं कुर्वन्ति। अतः यानानां न्यूनतया यात्रिकाणां क्लेशः अधिकः भवितुमर्हति।
उल्लेखनीयम् अस्ति यत् अतीते बृहत्सु राजनैतिककार्यक्रमेषु बहुसंख्याकानि यानानि कार्यक्रमेषु नियोजितानि आसन्, येन सामान्यजनाः महतीं कठिनतां अनुभूतवन्तः। तदा जनानाम् ऑटो टोटो तथा अन्येषां लघुयानानां आश्रयः ग्राह्यः अभवत् तथा च अधिकं भाटकं दातव्यम् अभवत्। तारकेश्वरस्य अस्य बृहदकार्यक्रमस्य दृष्ट्या अस्मिन् वारे अपि तादृशी एव स्थितिः उत्पद्येत इति आशङ्का व्यक्ता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani