प्रगतिशील कृषकः भूत्वा विकसित भारतस्य लक्ष्यं करणीयं प्राप्तम् : जितेंद्र सिंह सेंगरः
महोबा, 19 जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः सेवायाः द्वादशवर्षीयस्य सफलकार्यकालस्य अवसर उपलक्ष्य उत्तरप्रदेशस्य महोबा-जनपदे शुक्रवासरे कृषकभ्रातृभगिनीभिः सह सबमिशन ऑन एग्रीकल्चर एक्सटेन्शन (आत्मा) योजनान्तर्गत खरीफगोष्ठी आयोजिता, तथ
किसान गोष्ठी में मौजूद किसान


किसान गोष्ठी में बोलते एमएलसी


महोबा, 19 जूनमासः (हि.स.)।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः सेवायाः द्वादशवर्षीयस्य सफलकार्यकालस्य अवसर उपलक्ष्य उत्तरप्रदेशस्य महोबा-जनपदे शुक्रवासरे कृषकभ्रातृभगिनीभिः सह सबमिशन ऑन एग्रीकल्चर एक्सटेन्शन (आत्मा) योजनान्तर्गत खरीफगोष्ठी आयोजिता, तथा प्राकृतिकप्रगतिशीलकृषिविषयका कार्यशाला कृषकमेलाप्रदर्शनी च आयोजिते।

शुक्रवासरे जनपदमुख्यालयस्थिते सेवायोजनकार्यालये प्रधानमन्त्रिणः कार्यकालस्य द्वादशवर्षाणां सफलसमापनस्य उपलक्ष्ये कृषकगोष्ठी-मेला-प्रदर्शनी च आयोजिता। कार्यक्रमे हमीरपुर-बान्दा-विधानपरिषदः सदस्यः जितेन्द्रसिंहसेङ्गरः अवदत् यत् प्राकृतिककृषिः अद्यतनकाले अत्यावश्यकी वर्तते। एतया न केवलं मृत्तिकायाः उर्वरता वर्धते, अपितु कृषकाणामपि श्रेष्ठः लाभः भवति। कृषिं प्रगतिशीलां विधाय ‘विकसितभारत २०४७’ इति लक्ष्यमपि साधयितुं शक्यते।

सदरविधानसभाक्षेत्रस्य विधायकः राकेशगोस्वामी अवदत् यत् अद्यतनः कृषकः प्राकृतिककृषिं कृत्वा प्रगतिशीलकृषकः भूत्वा स्वस्य आयं वर्धयितुं शक्नोति। शासनस्य पक्षतः कृषकहितार्थं सञ्चाल्यमानाः विविधाः कल्याणकारीयोजनाः निरन्तरं भूमिस्तरे कृषकाणां कल्याणं कुर्वन्ति।

कृषकगोष्ठ्यां कोऑपरेटिवबैङ्कस्य अध्यक्षः चक्रपाणित्रिपाठी, भाजपादलस्य जिलाध्यक्षः मोहनलालकुशवाहा, पूर्वजिलाध्यक्षः अवधेशगुप्तः, कार्यक्रमसंयोजकः रविन्द्रमहेन्द्रः, अभियानसंयोजकः योगेशमिश्रः, किसानमोर्चायाः क्षेत्रीयोपाध्यक्षा उर्मिलाराजपूता, किसानमोर्चायाः जिलाध्यक्षः प्रदीपमिश्रः, अन्ये च दलस्य वरिष्ठपदाधिकारी अन्नदातृकृषकाः च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani