सर्वकार-युवक-उद्योगसहकारेण रोजगारसृष्टिः बहुगुणा वर्धते : प्रधानमन्त्री नरेन्द्रमोदी
नवदेहली, जूनमासः १९ (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् यदा सर्वकारः, युवा तथा उद्योगाः सहैव अग्रे गच्छन्ति, तदा रोजगारसर्जनस्य गति: बहुगुणं वर्धते। तेन उक्तं यत् प्रधानमन्त्रिणः विकसितभारत-रोजगार-योजना अस्य नूतनभारतस्य परिच
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को विकसित भारत रोजगार योजना के तहत 2,400 करोड़ रुपये की प्रोत्साहन राशि वितरित करने के बाद संबोधित करते हुए


नवदेहली, जूनमासः १९ (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् यदा सर्वकारः, युवा तथा उद्योगाः सहैव अग्रे गच्छन्ति, तदा रोजगारसर्जनस्य गति: बहुगुणं वर्धते। तेन उक्तं यत् प्रधानमन्त्रिणः विकसितभारत-रोजगार-योजना अस्य नूतनभारतस्य परिचायकं भवति, यया अद्यावधि प्रायः सप्ततिलक्षाधिकानि रोजगाराणि सृष्टानि, तथा प्रथमवारं सेवां प्राप्तवन्तः बहवः युवान: सामाजिकसुरक्षाकवचेन योजिताः।प्रधानमन्त्री उक्तवान् यत् अस्याः योजनायाः अन्तर्गतं अद्यावधि प्रायः सप्ततिलक्षाधिका: नूतना: रोजगारा: उत्पन्ना:, तथा प्रथमवारं सेवां प्राप्तवन्तः लगभग सप्ततिलक्षाधिकाः युवान: सामाजिकसुरक्षायां सम्बद्धाः कृताः। प्रायः विंशतिलक्षाधिकाः युवान: स्वस्य प्रथमसेवायां षण्मासान् पूरितवन्तः, येषु प्रायः दशलक्षाधिकेभ्यः युवकेभ्यः प्रोत्साहनराशिरूपेण द्विसहस्रकोट्यधिकं धनं तेषां धनागारेषु प्रत्यक्षं प्रेषितम्।तेन उक्तं यत् एषा राशि: केवलं आर्थिकसहायता न, अपितु यूनां परिश्रमस्य सम्मानं तथा तेषां उज्ज्वलभविष्ये राष्ट्रस्य विश्वासस्य अभिव्यक्तिः अस्ति। प्रधानमन्त्री अवदत् यत् एषा योजना केवलं रोजगारप्रदानपर्यन्तं सीमिता न, अपितु प्रथमसेवाप्राप्तानां यूनां स्वप्नानां सशक्तिकरणाय तथा युवा-उद्योगयोः मध्ये सुदृढसेतुनिर्माणाय अपि महत्त्वपूर्णा भूमिका वहति।

मोदी उक्तवान् यत् भारतं विश्वस्य सर्वाधिकयुवाजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति, तथा विकसितभारतस्य स्वप्नः देशस्य यूनां कौशलं, प्रतिभा तथा क्षमता एव अवलम्बते। सर्वकारः प्रयतते यत् प्रतिभाशालिनः युवानः अवसरं प्राप्नुयुः, नवाचारकर्तारः मंचं लभेरन् तथा उद्यमारम्भकर्तारः सर्वविधं सहयोगं प्राप्नुयुः।

तेन उक्तं यत् विगतेषु द्वादशवर्षेषु सर्वकारीनीतयः रोजगारस्य नूतनान् अवसरान् उत्पादितवत्यः। १२ लक्षकोट्यधिकः बुनियादी-संरचना-निवेशः लक्षशः यूनां कृते रोजगारस्य आधारं निर्माति, मुद्रा-योजनायाः अन्तर्गतं ३३ लक्षकोट्यधिकं साहाय्यं च कोटिशः जनान् स्वव्यवसायारम्भाय सहाय्यं कृतवत्।

प्रधानमन्त्री अवदत् यत् देशे दशकोट्यधिकाः महिलाः स्व-सहायता-समूहैः सह योजिताः, तथा त्रिकोट्यधिकाः महिलाः ‘लखपति-दीदी’ इति रूपेण प्रतिष्ठिताः। देशे स्टार्टअप-संख्या पञ्चशतात् द्विलक्षाधिकां प्रति वर्धिता, तथा अद्य प्रत्येकं जनपदे स्टार्टअप-संस्कृतिः विकसिताभवत्।

अन्ते प्रधानमन्त्री उक्तवान् यत् विश्वं भविष्यस्य अर्थव्यवस्थायाः सज्जतां कुर्वन् अस्ति, किन्तु भारतं तस्य नेतृत्वं कर्तुं अग्रे गच्छति। सर्वकारः युवान: भविष्य-प्रौद्योगिकीभ्यः अनुरूपं सज्जी-करोति, तथा कौशलं, नवाचारं, गुणवत्तां च सर्वोपरि स्थापयति।

एषा योजना यूनां अवसरप्रदानस्य, उद्योगानां प्रोत्साहनस्य तथा रोजगार-सर्जनस्य राष्ट्रिय-अभियानरूपेण भारत-निर्माणे सहायकं भविष्यति।

हिन्दुस्थान समाचार / Divya Ranjan