Enter your Email Address to subscribe to our newsletters

नवदेहली, १९ जूनमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी २० तथा २१ जून-दिवसयोः पश्चिमबङ्गस्य द्विदिवसीय-प्रवासे भविष्यति। अस्मिन् प्रवासे सः हुगली-जनपदे आयोजिते पश्चिमबङ्ग-दिवस-समारोहे सहभागितां करिष्यति, विविध-विकास-परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति, कृषकाणां हिताय अनेकाः केन्द्रीय-कृषि-योजनाः प्रारम्भयिष्यति, तथा २१ जूनमासे कोलकाता-नगरे आयोजितस्य अन्ताराष्ट्रिय-योग-दिवस-समारोहस्य नेतृत्वं करिष्यति।
प्रधानमन्त्री-कार्यालयस्य सूचनानुसारं २० जून-दिने प्रधानमन्त्री हुगली-जनपदस्य तारकेश्वर-नगरे आयोजिते पश्चिमबङ्ग-दिवस-समारोहे सहभागी भविष्यति। अस्मिन् अवसरे सः रेलमार्ग-कृषि-ग्रामीण-विकास-मत्स्यपालन- तथा पशुपालन-क्षेत्रैः सम्बद्धानां अनेकानां विकास-परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति, जनसभां च सम्बोधयिष्यति।
प्रधानमन्त्री प्रत्यक्ष-लाभ-अन्तरण-माध्यमेन देशस्य ९.४४ कोट्यधिक-कृषकाणां धनागारेषु प्रधानमन्त्री-किसान-सम्मान-निधि-योजनायाः २३तमं भागं विमोक्ष्यति। अस्याः अन्तर्गतं १८,८८० कोटिरूप्यकाधिकं धनं कृषकाणां लेखेषु प्रेष्यते। पश्चिमबङ्गे ४५ लक्षाधिक-कृषकाः ९०० कोटिरूप्यकाधिकं वित्तीय-साहाय्यं प्राप्स्यन्ति।
प्रधानमन्त्री पश्चिमबङ्गे प्रधानमन्त्री-फसल-बीमा-योजनायाः शुभारम्भं करिष्यति। २०२६–२७ संवत्सरे अस्याः योजनायाः अन्तर्गतं राज्यस्य प्रायः ५० लक्ष-कृषकाणां तथा १४ लक्ष-हेक्टेयर-परिमितायाः कृषिभूमेः बीमा-सुरक्षा प्रदातुं लक्ष्यं निर्धारितम् अस्ति। एतदतिरिक्तं डिजिटल-एग्रीकल्चर-अभियान अन्तर्गतं एग्रीस्टैक, राष्ट्रीय-प्राकृतिक-कृषि-अभियानं तथा प्रधानमन्त्री-धन-धान्य-कृषि-योजना: अपि प्रारभ्यन्ते।
प्रधानमन्त्री दक्षिण-२४-परगना-जनपदस्य फ्रेजरगञ्जे आधुनिकीकृत-मत्स्य-बन्दरगाहस्य तथा बीरभूम-जनपदस्य सैंथिया-नगरे नूतनस्य आधुनिक-मत्स्य-बाजारस्य उद्घाटनं करिष्यति। नदिया-जनपदस्य हरिणघाटे छागानां कृते प्रादेशिक-वीर्य-उत्पादन-प्रयोगशालायाः तथा वीर्य-भण्डारस्य अपि लोकार्पणं करिष्यति। एषा सुविधा पूर्वभारते स्वप्रकारस्य प्रथमा भविष्यति।
रेलमार्ग-क्षेत्रे प्रायः ५९० कोटिरूप्यक-मूल्यात्मक्य: परियोजनाः अपि गतिं प्राप्स्यन्ति। प्रधानमन्त्री हावड़ा-जनपदस्य सांकराइल-सांतरागाछी-संयोजक-रेलमार्ग-परियोजनां राष्ट्राय समर्पयिष्यति। तदनन्तरं हावड़ा-नगरे ३००-शय्यायुक्तस्य नूतनस्य मण्डलीय-रेल-चिकित्सालयस्य तथा पूर्व-मेदिनीपुर-जनपदस्य हाउर-राधामोहनपुर-रेल-उपरिसेतोः आधारशिलां स्थापयिष्यति।
तदतिरिक्तं प्रधानमन्त्री प्रधानमन्त्री-ग्राम-सड़क-योजनायाः अन्तर्गतं निर्मितानां ४९ मार्ग-परियोजनानां उद्घाटनं करिष्यति। एतेषां मार्गाणां समग्र-दीर्घता ३१५ किलोमीटराधिकम् अस्ति। एताभिः परियोजनाभिः ग्रामीण-क्षेत्रेषु सम्पर्क-व्यवस्था अधिकं सुदृढा भविष्यति।
२१ जून-दिने प्रधानमन्त्री कोलकाता-नगरस्य रेड-रोड-स्थले आयोजितस्य द्वादश-अन्तरराष्ट्रीय-योग-दिवस-समारोहस्य नेतृत्वं करिष्यति। अस्य वर्षस्य योग-दिवसस्य विषयः स्वस्थ-वृद्धावस्थायै योगः इति निर्धारितः। प्रधानमन्त्री सहस्रैः योग-साधकैः सह सामान्य-योग-अभ्यास-सत्रे सहभागितां करिष्यति तथा जनान् सम्बोधयिष्यति।
तदनन्तरं प्रधानमन्त्री कोलकाता-स्थिते श्यामा-प्रसाद-मुखर्जी-पत्तने स्वदेशे अभिकल्पितान् निर्मितांश्च त्रीन् नौसैनिक-पोतान्— आईएनएस दुनागिरि, आईएनएस संशोधकः तथा आईएनएस अग्रयः— भारतीय-नौसेनायां समावेशयिष्यति। एते पोताः भारतीय-नौसेनायाः युद्धपोत-अभिकल्पन-विभागेन अभिकल्पिताः, कोलकाता-स्थितेन गार्डन-रीच-शिपबिल्डर्स-एण्ड्-इञ्जिनियर्स संस्थया च २०० अधिक-सूक्ष्म-लघु-मध्यम-उद्यमानां सहभागितया निर्मिताः सन्ति। एतेषु पोतेषु ७५ प्रतिशताधिकं स्वदेशीय-सामग्रीणाम् उपयोगः कृतः, यः आत्मनिर्भर-भारतस्य दिशि महत्त्वपूर्णा उपलब्धिः मन्यते।
Hindusthan Samachar / Divya Ranjan