Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 19 जूनमासः (हि.स.)।
ई-रजिस्ट्रीव्यवस्थायाः विरोधे पञ्चमेऽपि दिवसे शुक्रवासरे अधिवक्तारः हड़ताले स्थिताः आसन्। ते रामगङ्गाविहारस्थिते कार्यालये प्रदर्शनं कृत्वा धरनायाम् उपाविशन्। दि बार एसोसिएशन एण्ड लाइब्रेरी इत्यस्य अध्यक्षः आनन्दमोहनगुप्तः अवदत् यत् रजिस्ट्रीव्यवस्थायाः निजीकरणं कदापि स्वीकर्तुं न शक्यते। अधिवक्तारः अस्याः व्यवस्थायाः विरोधं निरन्तरं करिष्यन्ति।
दि बार एसोसिएशन एण्ड लाइब्रेरी इत्यस्य महासचिवः कपिलगुप्तः अवदत् यत् शुक्रवासरस्य प्रातःकाले अधिवक्तारः, दस्तावेजलेखकाः, स्टाम्पविक्रेतारः, टाइपिस्टाः च रामगङ्गाविहारस्थिते रजिस्ट्रीकार्यालये समागताः आसन्। अधिवक्तारः हड़ताले स्थिताः आसन् तथा च तैः न्यायिककार्याण्यपि न कृतानि।
बृहस्पतिवासरस्य अपराह्णे अपरजिलाधिकारी (वित्तराजस्वविभागः) ममतामालवीया तथा एआईजी स्टाम्प अनिलकुमारः रजिस्ट्रीकार्यालयं प्राप्य अधिवक्तृभिः सह वार्तालापम् अकुरुताम्। अधिवक्तृभिः ताभ्यां मुख्यमन्त्रिणं प्रति सम्बोधितं ज्ञापनम् अपि प्रदत्तम्।
बार एसोसिएशन ऑफ टैक्स एडवोकेट्स इत्यस्य अध्यक्षः नरेशकुमारशर्मा, महासचिवः नीरजभटनागरः च ई-रजिस्ट्रीव्यवस्थायाः विरोधे अधिवक्तृभ्यः स्वसमर्थनं प्रदत्तवन्तौ।
धरनायां आशुतोषत्यागी, संजययादवः, मनीषवार्ष्णेयः, मोहम्मद् इस्लामः, फैसलअनवरः, आवरणअग्रवालः, अभिषेकभटनागरः इत्यादयः अन्ये च अधिवक्तारः उपस्थिताः आसन्।
-------------
Hindusthan Samachar / Dheeraj Maithani