राष्ट्रपतिः द्रौपदीमुर्मुः जन्मदिने स्वजन्मभूमये विकास-परियोजनानाम् उपहारं प्रदास्यति, प्रधानमन्त्री नरेन्द्रमोदी अपि भविष्यति
भुवनेश्वरम्, १९ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः स्वजन्मदिनस्य अवसरे पुनरेकवारं स्वजन्मभूमिं मयूरभञ्ज-जनपदस्य रायरङ्गपुर-नगरं पैतृकग्रामं पहाडपुरं च प्रवासं करिष्यति। सा अद्य सायंकाले मयूरभञ्जं प्राप्स्यति। शुक्रवासरे अपराह्णे राष्ट्रपत
राष्ट्रपति द्रौपदी मुर्मु फाइल फोटो


भुवनेश्वरम्, १९ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः स्वजन्मदिनस्य अवसरे पुनरेकवारं स्वजन्मभूमिं मयूरभञ्ज-जनपदस्य रायरङ्गपुर-नगरं पैतृकग्रामं पहाडपुरं च प्रवासं करिष्यति। सा अद्य सायंकाले मयूरभञ्जं प्राप्स्यति।

शुक्रवासरे अपराह्णे राष्ट्रपतिः मध्यप्रदेशात् रायरङ्गपुरम् आगत्य अनेकानां महत्त्वपूर्णानां विकास-जनकल्याण-परियोजनानाम् उद्घाटनं करिष्यति। सा एम्स-भुवनेश्वरस्य आयोजनेन विशेष-चिकित्सा-शिविरस्य शुभारम्भं करिष्यति। तदनन्तरं कुसुमी-खण्डस्य खनन-प्रभावित-ग्रामाणां कृते महती-एकीकृता-ग्रामीण-पाइप-जलापूर्ति-परियोजनायाः उद्घाटनमपि करिष्यति, येन क्षेत्रस्य सहस्रशः जनाः शुद्ध-पेयजल-सुविधां प्राप्स्यन्ति।

राष्ट्रपतिः रायरङ्गपुरे ब्रह्मकुमारी-संस्थायाः ‘मातृशक्ति-भवनस्य’ अपि लोकार्पणं करिष्यति। तदतिरिक्तं विशेष-परिपथ-विश्रामगृहस्य तथा रायरङ्गपुर-आरक्षक-जनपदस्य नूतन-भवनस्य उद्घाटनं कृत्वा क्षेत्रस्य प्रशासनिक-आधारभूत-संरचनां सुदृढीकर्तुं महत्त्वपूर्णं पदक्षेपं स्थापयिष्यति।

राष्ट्रपतेः जन्मदिनं २० जून-दिने भविष्यति। एतस्य ऐतिहासिक-अवसरस्य विशेषतां वर्धयितुं प्रधानमन्त्री नरेन्द्रमोदी अपि प्रथमवारं रायरङ्गपुरम् आगमिष्यति। उभयोः शीर्ष-नेतृयोः आगमनं प्रति सम्पूर्णे क्षेत्रे उत्साहपूर्णं वातावरणम् अस्ति तथा प्रशासनिक-प्रस्तुतयः अन्तिम-चरणं प्राप्ताः सन्ति।

राष्ट्रपतिः मुर्मुः स्वग्रामे पहाडपुरे पारम्परिक-कार्यक्रमेषु सहभागिनी भविष्यति। राष्ट्रपतिः प्रधानमन्त्री च ग्रामस्य विविधेषु धार्मिक-सांस्कृतिक-स्थलेषु भ्रमणं करिष्यतः तथा स्थानीय-जनजातीय-समुदायस्य पारम्परिक-पूजा-अनुष्ठानेषु भागं गृह्णीताम्।

उभौ नेतारौ एसएलएस-आवासीय-विद्यालयम् आगत्य विद्यार्थिभिः ग्रामीणैश्च सह संवादं करिष्यतः। स्थानीय-जनानां कृते एषः अवसरः अत्यन्तं विशेषः मन्यते, यतः ते स्वमध्ये राष्ट्रपतिं प्रधानमन्त्रीं च द्रष्टुं महोत्सुकाः सन्ति।

दाण्डबोस-विमान-पट्टिकायां विशाल-जनसभायाः आयोजनं भविष्यति, यत्र उभौ नेतारौ जनसमूहं सम्बोधयिष्यतः। अस्मिन् अवसरे ४७,६०० कोटि-रूप्यकाधिक-मूल्यस्य विविध-विकास-परियोजनानां उद्घाटनं शिलान्यासं च करिष्यतः।

राष्ट्रपतेः प्रधानमन्त्रीणश्च आगमनं दृष्ट्वा पहाडपुर-ग्रामः रायरङ्गपुर-नगरं च विशेषरूपेण अलङ्क्रियते। ग्रामस्य स्वच्छता, सौन्दर्यीकरणम् आधारभूत-सुविधानां सुदृढीकरणं च विशेषरूपेण क्रियते। पहाडपुरे दिग्घियाबेडा-स्थले च अस्थायी-हेलिकॉप्टर-अवतरण-स्थलानि निर्मितानि सन्ति, दाण्डबोस-विमान-पट्टिकायां सभा-स्थलस्य हेलिकॉप्टर-अवतरण-स्थलस्य च निर्माणकार्यं शीघ्रतया सम्पन्नं भवति।

देशस्य सर्वोच्च-संवैधानिक-पदयोः आसीनयोः नेत्र्योः प्रवासं दृष्ट्वा सुरक्षा-व्यवस्था अभूतपूर्वरूपेण सुदृढीकृता अस्ति। राष्ट्रपतेः प्रधानमन्त्रीणश्च यात्रा-मार्गः, हेलिकॉप्टर-अवतरण-स्थलानि, सभा-स्थलं, राष्ट्रपतेः निवासः तथा अन्ये महत्त्वपूर्ण-स्थानानि निरन्तरम् अनुवीक्ष्यन्ते। वरिष्ठ-आरक्षक-अधिकारिणः स्पष्टतया उक्तवन्तः यत् सुरक्षायां कश्चन प्रमादः न सह्यः भविष्यति।

जनपद-प्रशासनं आरक्षक-प्रशासनं च संयुक्तरूपेण व्यापकां सुरक्षा-यातायात-प्रबन्धन-योजनां निर्मितवन्तौ, येन कार्यक्रमस्य समये काप्यप्रिय-परिस्थितिः न उत्पद्येत।

रायरङ्गपुरस्य, पहाडपुरस्य समीपवर्तिग्रामाणां च निवासिषु राष्ट्रपतेः प्रधानमन्त्रीणश्च स्वागतं प्रति महान् उत्साहः दृश्यते। ग्रामीणाः एतद् स्वक्षेत्रस्य विकासाय राष्ट्रिय-परिचयस्य च ऐतिहासिकमवसरं मन्यन्ते। राष्ट्रपतेः द्रौपदीमुर्मोः जन्मदिने तस्याः जन्मभूमये प्रदीयमानानां विकास-परियोजनानां उपहारेण सम्पूर्णे मयूरभञ्ज-जनपदे उत्सवसदृशं वातावरणम् अस्ति।

Hindusthan Samachar / Divya Ranjan