ओडिशा-सर्वकारस्य द्विवर्षपूर्तिः - प्रधानमन्त्री श्रीनरेन्द्रमोदी-महोदयः राष्ट्रपतिः श्रीमतीद्रौपदीमुर्मु-महोदया च ४७,६०० कोटि-रूप्यकाणां परियोजनानाम् उपहारं प्रदास्यतः
भुवनेश्वरनगरम्, १९ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः जूनमासस्य २० दिनाङ्के ओडिशा-राज्यस्य प्रवासे भविष्यति। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी-मुर्मु-महोदया अपि तेन सह उपस्थिता भविष्यति, यत् राज्यस्य कृते ऐतिहासिकः अवसरः भविष्यति। स
प्रधानमंत्री नरेन्द्र मोदी


भुवनेश्वरनगरम्, १९ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयः जूनमासस्य २० दिनाङ्के ओडिशा-राज्यस्य प्रवासे भविष्यति। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी-मुर्मु-महोदया अपि तेन सह उपस्थिता भविष्यति, यत् राज्यस्य कृते ऐतिहासिकः अवसरः भविष्यति। स्वस्य अस्मिन् प्रवासे उभौ शीर्षनेतारौ मयूरभञ्ज-जनपदान्तर्गतं पहाडपुर-ग्रामं भ्रमिष्यतः तथा च राज्य-सर्वकारस्य द्विवर्षपूर्त्युपलक्ष्ये आयोजिते कार्यक्रमे भागं ग्रहीष्यतः।

निर्धारित-कार्यक्रमानुसारं राष्ट्रपतिः प्रधानमन्त्री च प्रातः प्रायः ११:१५ वादने मयूरभञ्ज-जनपदस्य पहाडपुर-ग्रामं प्राप्स्यतः। तत्र तौ सन्थाली-जाहेरा तथा हो-जाहेरा नामकयोः पवित्रोपवनयोः पूजामर्चनां करिष्यतः तथा च कौशल-विकास-केन्द्रस्य पहाडपुर-विद्यालयस्य च भ्रमणं करिष्यतः। एषा यात्रा जनजातीय-ग्रामीण-क्षेत्रेषु शिक्षायाः, कौशल-विकासस्य तथा सामाजिक-आर्थिक-सशक्तीकरणस्य संवर्धनाय क्रियमाणानां प्रयत्नानां महत्त्वं प्रकाशयिष्यति।

ततः परं मध्याह्ने प्रायः १ वादने उभौ नेतरौ मयूरभञ्ज-जनपदस्य रायरंगपुर-नगरे आयोजिते राज्यस्तरीय-कार्यक्रमे सम्मिलितौ भविष्यतः। “विकासस्य धारा, समग्रम् ओडिशा” इति विषयाधारितः अयं कार्यक्रमः ओडिशा-सर्वकारस्य द्विवर्षपूर्त्यवसरे आयोज्यते। अस्मिन् अवसरे ₹४७,६०० कोटि-रूप्यकाधिक-मूल्ययुक्तानां विविध-विकास-परियोजनानाम् उद्घाटनं शिलान्यासश्च करिष्यते। प्रधानमन्त्री अपि जनसभां सम्बोधयिष्यति।

एताः परियोजनाः ऊर्जा-क्षेत्रे, औद्योगिक-अवसंरचनायां, मार्ग-संपर्कव्यवस्थायां, पेयजल-व्यवस्थायां, स्वास्थ्य-सेवायां, शिक्षायां, पर्यटन-क्षेत्रे तथा सिञ्चन-व्यवस्थायां च सम्बद्धाः सन्ति। सर्वकारस्य मते एताः परियोजनाः राज्ये आधारभूत-सुविधानां सुदृढीकरणे, संपर्क-व्यवस्थायाः उन्नयने, ऊर्जा-सुरक्षायाः वर्धने तथा नवीन-रोजगार-अवसराणां सृजने महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

यासां प्रमुख-परियोजनानाम् आधारशिला स्थाप्यते, तासु ६०० मेगावाट-क्षमतायुक्ता अपर-इन्द्रावती-पम्प्ड-स्टोरेज-परियोजना, आईबी-ताप-विद्युत्-केन्द्रस्य द्वितीय-चरण-विस्तारान्तर्गताः ६६० मेगावाट-क्षमतायुक्ते द्वे नवीन-एकके तथा झारसुगुडा-जनपदस्य लखनपुरे भारत-कोल-गैसीफिकेशन-एण्ड-केमिकल्स-लिमिटेड् परियोजनाः च अन्तर्भवन्ति। एताभिः परियोजनाभिः ऊर्जा-उत्पादन-क्षमतायाः वर्धनं, घरेलु-कोयला-इत्यस्य स्वच्छ-उपयोगस्य प्रोत्साहनं तथा औद्योगिक-विकासस्य त्वरणं भविष्यतीति अपेक्ष्यते।

एतदतिरिक्तं भुवनेश्वरे ३०० टीपीडी-क्षमतायुक्तस्य अपशिष्टाधारित-संपीडित-बायोगैस-संयन्त्रस्य, कटक-भुवनेश्वर-नगरयोः प्रत्यक्ष-संयोजकस्य काठजोड़ी-नदी-सेतोः, बौध-जनपदस्य ढालपुर-हरभङ्गा-मार्गस्य विस्तारीकरण-सुदृढीकरण-परियोजनायाः, नुआपाड़ा-घाटीपाड़ा-पर्यन्तं राष्ट्रीय-राजमार्ग-३५३ चतुर्पंक्ति-विस्तारस्य, कुसुमडीही-महान्-उत्थापन-सिञ्चन-परियोजनायाः, रायरङ्गपुरे इग्नू-क्षेत्रीय-केन्द्रस्य तथा आच्छादित-बैडमिण्टन-क्रीडाङ्गणस्य च आधारशिला स्थाप्यते।

प्रवासस्य समये बौध-जनपद-मुख्यालय-चिकित्सालयस्य ३००-शय्यायुक्त-नवीन-भवनस्य, राज्यस्य विविध-जनपदेषु २४ अटल-बस-स्थानकानां तथा नव स्वयञ्चालित-परीक्षण-केन्द्राणां उद्घाटनमपि भविष्यति। एतदतिरिक्तं एनएच-५७ मार्गे नयागढ़-नगर-परिहार-मार्गः, कुसुमी-स्मार्ट-सिञ्चन-परियोजनायाः भूमिगत-नलिका-घटकः, जखपुरा–जाजपुर-केन्दुझर-रोड–बैतरणी-मार्गः बहुपथ-रेल-परियोजना, हिंडोल-रोड–मेरामण्डली बहुपथ-रेल-परियोजना तथा रायरङ्गपुरस्य क्रीडा-सङ्कुलं जनजातीय-अनुसन्धान-केन्द्रं च सहिताः अनेकाः महत्त्वपूर्णाः परियोजनाः राष्ट्राय समर्पिताः भविष्यन्ति।

अयं प्रवासः ओडिशा-राज्यस्य विकासाय, आधारभूत-सुविधाविस्ताराय तथा जनजातीय-क्षेत्राणां समग्र-उन्नयनाय महत्त्वपूर्णं पदक्षेपं मन्यते।

Hindusthan Samachar / Divya Ranjan