आईओए-द्वितीये क्रीडक-मञ्चे स्वच्छक्रीडा-अभियानस्य आरम्भः
नवदेहली, जूनमासः १९ दिनाङ्कः (हि.स.)। भारतीय-ओलम्पिक-सङ्घः शुक्रवासरे मेजर-ध्यानचन्द-राष्ट्रिय-क्रीडाङ्गणे द्वितीयस्य क्रीडक-फोरम-इत्यस्य आयोजनं कृतवान्। अस्मिन् कार्यक्रमे देशस्य त्रिंशदधिकैः राष्ट्रीय-क्रीडा-संघैः सम्बद्धाः पञ्चसप्तत्यधिकाः वर्तम
आईओए ने आयोजित किया दूसरा एथलीट्स फोरम


नवदेहली, जूनमासः १९ दिनाङ्कः (हि.स.)। भारतीय-ओलम्पिक-सङ्घः शुक्रवासरे मेजर-ध्यानचन्द-राष्ट्रिय-क्रीडाङ्गणे द्वितीयस्य क्रीडक-फोरम-इत्यस्य आयोजनं कृतवान्। अस्मिन् कार्यक्रमे देशस्य त्रिंशदधिकैः राष्ट्रीय-क्रीडा-संघैः सम्बद्धाः पञ्चसप्तत्यधिकाः वर्तमान-पूर्वक्रीडकाः भागं गृहीतवन्तः।

एषः मंचः क्रीडकानां कृते शिक्षणस्य, संवादस्य तथा विकासस्य अवसरानां प्रदानेन आयोजितः आसीत्, यस्मिन् क्रीडा-विशेषज्ञाः, क्रीडक-प्रतिनिधयः तथा भारतीय-क्रीडाजगतः वरिष्ठसदस्याः च भागं गृहीतवन्तः। अस्मिन् अवसरे “स्वच्छ-क्रीडा-अभियानस्य” अपि आरम्भः कृतः। एतत् राष्ट्रीयस्तरीयं एण्टी-डोपिङ्-जागरूकता-अभियानम् अस्ति, यत् भारतीय-ओलम्पिक-सङ्घेन तथा नीरज-चोपड़ा-फाउण्डेशन-इत्यस्य सहयोगेन कार्यान्वितं भविष्यति। अस्य अभियानस्य उद्देश्यं क्रीडकाणां मध्ये जागरूकतावर्धनम्, शिक्षाप्रदानं तथा तान् क्रीडासु समुचितनिर्णयग्रहणाय प्रेरयितुम् अस्ति।

अभियानान्तर्गतं क्रीडकसहभागितायुक्ताः कार्यक्रमाः, डिजिटल-शिक्षणसामग्री, कार्यशालाः तथा देशस्य प्रमुखक्रीडाकेन्द्रेषु जागरूकता-कार्यक्रमाः आयोजयिष्यन्ते। एथलीट्स-फोरम-अवसरे क्रीडकाणां कृते बहूनि विशेषज्ञ-सत्राणि अपि आयोजितानि। तेषु आत्मविकासः, व्यक्तिगत-परिचय-निर्माणम्, क्रीडा-भविष्य-योजनायाः संरचना, प्रोफाइल-निर्माणम् तथा नेटवर्किङ्-कौशलम् इत्यादयः विषयाः समाविष्टाः आसन्, येन क्रीडकाः प्रतियोगिताजीवनेन सह भविष्यस्य सम्भावनाभ्यः अपि सम्यक् सज्जां कर्तुं शक्नुवन्ति।

कार्यक्रमे विभिन्नाः अन्तःक्रियात्मक-वितानानि अपि स्थापितानि, यत्र क्रीडकाणां कृते क्रीडा-भविष्यम्, कल्याणसेवाः तथा सहायतासेवाः इत्यादीनां विषये सूचना प्रदत्ता। आईओसी एथलीट-३६५ स्टॉल-माध्यमेन क्रीडकाणां सर्वाङ्गीण-विकासाय तथा भविष्य-सम्बद्धानि संसाधनानि उपलब्धानि कृतानि, यदा स्वच्छ-क्रीडा-अभियान-वितान-मध्ये एण्टी-डोपिङ्-नियमानां विषये जागरूकता-सामग्री च सहभागी कृता।

भारतीय-ओलम्पिक-सङ्घस्य मुख्य-कार्यकारी-अधिकारी रघुराम-अय्यरः उक्तवान् यत् एष: प्रयत्न: क्रीडकाणां कृते एतादृशं वातावरणं निर्मातुं महत्त्वपूर्णं पदं अस्ति, यत्र ते क्रीडाभावेन, निष्पक्षतया तथा उत्तरदायित्वेन सह अग्रे गन्तुं शक्नुवन्ति।

द्वितीयः क्रीडक-फोरम इति तथा स्वच्छ-क्रीडा-अभियानं भारतीय-ओलम्पिक-सङ्घस्य तां प्रतिबद्धतां दृढीकुरुतः, यया क्रीडकाणां क्रीडाजीवने तथा तदनन्तरमपि आवश्यकं ज्ञानं, सहयोगः तथा अवसराः प्रदीयन्ते, येन ते भारतीय-क्रीडाविकासे प्रभावी-योगदानं कर्तुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan