Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम्, १९ जूनमासः (हि.स.)। काङ्ग्रेस-दलस्य सांसदः लोकसभायां विपक्ष-नेता च राहुल-गान्धेः जन्मदिनावसरे तमिळनाडु-राज्ये विभिन्न-राजनैतिक-दलानां नेतारः कार्यकर्तारश्च तस्मै शुभकामनाः प्रेषितवन्तः। अस्मिन् अवसरे तमिळनाडु-राज्यस्य मुख्यमन्त्री विजयः राहुल-गान्धेः स्वास्थ्यपूर्णं सफलं च दीर्घं सार्वजनिक-जीवनं कामितवान्।
मुख्यमन्त्रिणा विजयेन स्वस्य शुभकामना-सन्देशे उक्तं यत् राहुल-गान्धी देशस्य प्रगत्यै लोकतान्त्रिक-मूल्यानां संरक्षणाय समाजस्य सर्वेषां वर्गाणां हिताय च निरन्तरम् स्वरम् उत्थापितवान्। सः उक्तवान् यत् राहुल-गान्धी उत्तमं स्वास्थ्यं दीर्घायुष्यम् स्वेषु सर्वेषु प्रयत्नेषु सफलतां च प्राप्नुयात् तथा सार्वजनिक-जीवने उत्कृष्टां सेवां निरन्तरं कुर्यात् इति मम शुभकामना। स्वस्य प्रिय-भ्रातरम् इति सम्बोध्य सः राहुल-गान्धिने जन्मदिनस्य हार्दिक-शुभकामनाः अयच्छत्।
अस्मिन् एव अवसरे राज्यस्य पूर्वमुख्यमन्त्री एम.के. स्टालिन अपि राहुल-गान्धिने जन्मदिनस्य शुभकामनाः प्रेषितवान्। सामाजिक-माध्यम-मञ्चे एक्स इति माध्यमे प्रकाशिते सन्देशे सः राहुल-गान्धेः उत्तम-स्वास्थ्यस्य सुखमय-जीवनस्य च कामनाम् अकुरुत तथा तस्मै जन्मदिनस्य हार्दिक-शुभकामनाः अयच्छत्।
राजनैतिक-क्षेत्रेषु राहुल-गान्धेः जन्मदिनावसरे उत्साहपूर्णं वातावरणम् आसीत्। काङ्ग्रेस-दलस्य कार्यकर्तारः विभिन्नेषु स्थानेषु कार्यक्रमान् आयोजित्य तस्य दीर्घायुषः स्वस्थ-जीवनस्य च कामनाम् अकुर्वन्।
उल्लेखनीयं यत् तमिळनाडु-विधानसभा-निर्वाचनानन्तरं काङ्ग्रेस-दलः द्रविड़-मुनेत्र-कळगम् इत्यनेन सह स्वगठबन्धनात् पृथक् भूत्वा तमिळगा-वेट्रि-कळगम् इत्यनेन सह राजनैतिक-गठबन्धनम् अकरोत्। ततः गठितायां टीवीके-सर्वकारस्य मन्त्रिपरिषदि काङ्ग्रेस-दलस्य द्वाभ्यां नेतृभ्यां स्थानम् अपि प्रदत्तम्।
राजनैतिक-विश्लेषकाणां मते राज्यस्य राजनीतौ काङ्ग्रेस-दलस्य टीवीके-दलस्य च वर्धमाना समीपता भविष्यस्य निर्वाचन-रणनीतिषु महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति।
Hindusthan Samachar / Divya Ranjan