Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, १९ जूनमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंह-धामी शुक्रवासरे पुलिस-लाइन-प्राङ्गणे द्वादश-अन्ताराष्ट्रिय-योग-दिवसस्य उपलक्ष्ये आयोजिते ‘योगाय धावनम्’ कार्यक्रमे सहभागं कृत्वा उक्तवान् यत् एषः कार्यक्रमः केवलं धावन-कार्यक्रमः न, अपितु स्वस्थ-जीवनस्य, सकारात्मक-चिन्तनस्य तथा योगस्य जनं जनं प्रति प्रसारणस्य सशक्तम् अभियानम् अस्ति।
मुख्यमन्त्री अवदत् यत् अयं कार्यक्रमः योगं प्रति जन-जागरूकतां वर्धयितुं तथा स्वस्थ-समाजस्य निर्माणाय महत्त्वपूर्ण: प्रयत्नः अस्ति। तेन उक्तं यत् देवभूमिः उत्तराखण्डः शताब्दीभ्यः योगस्य, आध्यात्मिक-साधनायाः तथा ऋषि-मुनीनां तपोभूमेः रूपेण प्रसिद्धः अस्ति। अत्रत्याः समृद्धाः आध्यात्मिक-परम्पराः तथा प्राकृतिकं वातावरणं मानवजातये स्वास्थ्यस्य, सन्तुलनस्य तथा सकारात्मक-जीवनस्य सन्देशं ददाति।
सः अवदत् यत् योगः भारतस्य प्राचीनः सांस्कृतिक-धरोहरः अस्ति, या शरीरस्य, मनसः तथा आत्मनः मध्ये सामञ्जस्यं स्थापयन्ती वैज्ञानिक-जीवनोपयोगिनी च पद्धतिः अस्ति। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य प्रयत्नैः योगाय वैश्विकी मान्यता प्राप्ता। वर्षे २०१४ तमे संयुक्तराष्ट्र-महासभायां तेन प्रस्तुतस्य प्रस्तावस्य अनन्तरं जूनमासस्य २१ दिनाङ्कः अन्ताराष्ट्रिय-योग-दिवसरूपेण स्वीकृतः, अद्य च विश्वस्य १९० अधिकेषु देशेषु कोटिशः जनाः योगाभ्यासं कुर्वन्ति।
मुख्यमन्त्री अवदत् यत् वर्तमानकाले वर्धमान-चिन्तायाः, अवसादस्य तथा विविध-स्वास्थ्य-समस्यानां मध्ये योगः स्वस्थ-सन्तुलित-जीवनस्य प्रभावी साधनरूपेण उद्भूतः अस्ति। तेन युवभ्यः नियमित-योगाभ्यासं व्यायामं च स्व-दिनचर्यायाः अङ्गत्वेन स्वीकर्तुम् आह्वानं कृतम्। तेन उक्तं यत् स्वस्थाः, ऊर्जावन्तः, अनुशासिताश्च युवानः एव राज्यस्य देशस्य च उज्ज्वल-भविष्यस्य आधारशिलाः भवन्ति।
सः अपि अवदत् यत् राज्य-सर्वकारः उत्तराखण्डं योगस्य, आयुर्वेदस्य, स्वास्थ्य-संवर्धनस्य तथा प्राकृतिक-चिकित्सायाः वैश्विक-केन्द्ररूपेण प्रतिष्ठापयितुं निरन्तरं कार्यं करोति। नूतन-योग-नीत्याः माध्यमेन योग-ध्यान-केन्द्राणां प्रोत्साहनम्, योग-प्रशिक्षकाणां सहयोगः तथा योग-स्वास्थ्याधारित-रोजगार-अवसराणां विकासः क्रियते।
मुख्यमन्त्री सर्वान् नागरिकान् प्रतिदिनं योगं स्वीकर्तुं, स्वस्थाम् अनुशासितां च जीवनशैलीं विकसितुं, नशामुक्त-समाजस्य निर्माणे योगदानं दातुं तथा योगस्य सन्देशं जनं जनं प्रति प्रसारयितुं सङ्कल्पं कर्तुम् आह्वानम् अकरोत्। तेन विश्वासः व्यक्तीकृतः यत् प्रदेशस्य युवानः योगं जनान्दोलनस्य स्वरूपं दातुं महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति तथा स्वस्थ-समृद्ध-सशक्त-उत्तराखण्ड-निर्माणे सहभागिनः भविष्यन्ति।
अस्मिन् अवसरे मन्त्रिमण्डल-मन्त्री मदन-कौशिक-महोदयः, विधायकः विनोद-चमोली-महोदयः, देहरादून-नगरस्य महापौरः सौरभ-थपलियाल-महोदयः, आयुष-विभागस्य सचिवा रञ्जना-राजगुरु-महोदया, देहरादून-जनपदाधिकारी डॉ.आशीष-चौहान-महोदयः तथा वरिष्ठ-आरक्षक-अधीक्षकः परमेंद्र-डोभाल-महोदयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan