मुख्यमंत्रीः योगी आदित्यनाथः देवीपाटन-मण्डले ४९०१.६५ कोटि-रूप्यक-परिमितानां कार्य-प्रस्तावानां स्वीकृतिं दत्तवान्।
गोंडा, 19 जून(हि.स.)। मुख्यमन्त्री योगीआदित्यनाथः शुक्रवासरे केवलं त्रयोदशदिनानन्तरं पुनः गोण्डाजनपदस्य प्रवासम् अकरोत्। स्वस्य द्विघण्टात्मकस्य कार्यक्रमस्य अन्तर्गतं तेन त्रयस्त्रिंशत् विधानसभाक्षेत्रेभ्यः जनप्रतिनिधिभिः प्रेषितानां प्रस्तावानां
गोंडा में देवीपाटन मण्डल के विकास कार्यों को लेकर समीक्षा बैठक करते मुख्यमंत्री योगी


गोंडा, 19 जून(हि.स.)। मुख्यमन्त्री योगीआदित्यनाथः शुक्रवासरे केवलं त्रयोदशदिनानन्तरं पुनः गोण्डाजनपदस्य प्रवासम् अकरोत्। स्वस्य द्विघण्टात्मकस्य कार्यक्रमस्य अन्तर्गतं तेन त्रयस्त्रिंशत् विधानसभाक्षेत्रेभ्यः जनप्रतिनिधिभिः प्रेषितानां प्रस्तावानां प्रस्तुतीकरणमपि दृष्टम्। तस्मिन् मुख्यतया माता पाटेश्वरी शक्तिपीठधाम तथा अन्येषां धार्मिकस्थलानां मध्ये सम्पर्कव्यवस्थां सुदृढां कर्तुं निर्देशाः प्रदत्ताः।

मुख्यमन्त्रिणा देवीपाटनमण्डलस्य माता पाटेश्वरीदेवी शक्तिपीठम्, स्वामीनारायणमन्दिरम्, बस्तीजनपदस्य मखौडाधाम तथा अन्यानि प्रमुखधार्मिकस्थानानि संयोजयन्तीनां त्रयोदश प्रमुखमार्गाणां विकासाय अनुमतिः प्रदत्ता। कुलम् ४९०१.६५ कोटिरूप्यकपरिमितानां सहस्राधिकविकासपरियोजनानां प्रस्तावाः स्वीकृताः।

मुख्यमन्त्री योगीआदित्यनाथः महाराजसुहेलदेवसभागारे लोकनिर्माणविभागस्य परियोजनानां समीक्षा अकरोत्। तथा च नूतनकार्ययोजनानां विषये जनप्रतिनिधिभिः सह मन्थनमपि कृतवान्। अस्मिन्नवसरे देवीपाटनमण्डलस्य गोण्डा, बलरामपुर, बहराइच, श्रावस्ती इत्येषां जनपदानां मार्गसम्पर्कपरियोजनानां प्रगतिः परीक्षिता। तदनन्तरं बस्तीमण्डलस्य बस्ती, सिद्धार्थनगर, सन्तकबीरनगर इत्येषां विकासपरियोजनानामपि समीक्षा कृता। ग्रामीणक्षेत्राणि प्रमुखमार्गैः सह संयोजयितुम्, जीर्णमार्गाणां पुनर्निर्माणाय, सम्पर्कमार्गाणां सुदृढीकरणाय तथा पुलसेतुसम्बद्धनिर्माणकार्याणां विषये विस्तृतमन्थनम् अभवत्।

मुख्यमन्त्रिणः समक्षं देवीपाटनमण्डलायुक्ता दुर्गाशक्तिनागपाला तथा लोकनिर्माणविभागस्य अधिकारिणः मार्गपुलसेतु तथा अन्यासां आधारभूतविकासपरियोजनानां प्रगतेः विषये सूचना प्रदत्तवन्तः। मुख्यमन्त्रिणा लम्बितकार्याणि समयसीमायामेव सम्पादयितुं निर्देशाः प्रदत्ताः। अधिकारिभिः विविधविकासपरियोजनानां प्रगतिविवरणमपि प्रस्तुतम्।

अस्मिन्नवसरे मुख्यमन्त्रिणा गर्तमुक्ताभियानस्य स्थितेः विषये अपि सूचना गृहीता। तेन मुख्यमन्त्रीग्रामसडक-योजनायाः अन्तर्गतं ८१० कार्याणि अनुमोदितानि। एतेषु प्रायः १४७२.८३ कोटिरूप्यकाणां व्ययः भविष्यति। एतेन ग्रामीणप्रदेशेषु १६०२ किलोमीटर-परिमिताः मार्गाः निर्मीय उत्तमा सम्पर्कसुविधा प्रदास्यते। पञ्चाशदधिक-मार्गाणां विस्तारीकरणं पुनरुद्धारश्च भविष्यति।

मुख्यमन्त्री योगीआदित्यनाथः प्रत्येकस्य विधानसभाक्षेत्रस्य प्रायः पञ्चाशत्कोटि-रूप्यकपरिमितानां विकासपरियोजनानां प्रस्तुतीकरणं दृष्टवान्। तेन जनप्रतिनिधिभिः सह विकास-परियोजनानां स्थितेः विषये चर्चा कृता। नगरीयग्रामीण-क्षेत्रयोः उत्तमसम्पर्क-व्यवस्थायै सुगमयातायाताय च मार्गाणां पुनरुद्धारसम्बद्ध-प्रस्तावाः प्राथमिकतया परीक्षिताः। तेषु आधारभूतसंरचना-सम्बद्धकार्याण्यपि समाविष्टानि आसन्। मुख्यमन्त्रिणा पश्चाद्वर्तिक्षेत्रेषु आकाङ्क्षात्मक-विकासखण्डेषु च प्रचलितानां विकास-परियोजनानामपि समीक्षा कृता।

मुख्यमन्त्रिणा द्वयोः राज्यराजमार्गयोः, प्रमुखौद्योगिकक्षेत्राणां सुदृढसम्पर्क-व्यवस्थायाः, एकाशीतिलघुसेतूनां तथा सप्तमहापुलानां निर्माणाय अनुमतिः प्रदत्ता। नगरीयक्षेत्रेषु उत्तमयातायात-व्यवस्थायै बाइपासमार्गाणां, उपरिसेतूनां च निर्माणकार्याणि अनुमोदितानि। देवीपाटनमण्डले मार्गसुरक्षासम्बद्ध-कार्याणि सम्पादयितुमपि निर्देशाः प्रदत्ताः। तत्सह जनपदस्य ग्रामीणक्षेत्रेषु द्वादश हेलिपैडनिर्माण-कार्याणामपि अनुमतिः प्रदत्ता।

तेन हरदौपट्टीसम्पर्कमार्गस्य विशेष-मरम्मतकार्यस्य, कटराबाजारस्य पण्डितपुरवा नहवा परसौरा वाया खजुहा सम्पर्कमार्गस्य विशेषमरम्मतकार्यस्य, सुभानपुर बेलवानोहरमार्गस्य विस्तारी-करणसुदृढीकरणकार्यस्य, हट्टीपुरवा तः कुढियावं सम्पर्कमार्गस्य विशेषमरम्मत-कार्यस्य, चान्दपुरडीहा सम्पर्कमार्ग-निर्माणकार्यस्य च अद्यतनस्थितेः विषये अपि सूचना गृहीता।

Hindusthan Samachar / Dheeraj Maithani