मुख्यमन्त्री योगी-आदित्यनाथः माता-कामाख्या-धाम प्राप्नोत्
अयोध्यानगरम्, १९ जूनमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः रामनगरीम् अयोध्यां प्राप्नोत्। सर्वप्रथमः सः रुदौली-विधानसभाक्षेत्रस्य माता कामाख्या-धाम अगच्छत्। मुख्यमन्त्री हेलिकैप्टर-अवतरणस्थलात् माता कामाख्या-मन्दिरं गतवान्। तत्र सः पूजार्चनां
मुख्यमंत्री योगी आदित्यनाथ अयोध्या फ़ाइल फोटो


अयोध्यानगरम्, १९ जूनमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः रामनगरीम् अयोध्यां प्राप्नोत्। सर्वप्रथमः सः रुदौली-विधानसभाक्षेत्रस्य माता कामाख्या-धाम अगच्छत्। मुख्यमन्त्री हेलिकैप्टर-अवतरणस्थलात् माता कामाख्या-मन्दिरं गतवान्। तत्र सः पूजार्चनां कृतवान्। रुदौली-विधानसभाक्षेत्राय तथा माता-कामाख्या-धाम-नगरपञ्चायताय विविधाः विकास-परियोजनाः समर्पयिष्यति। सः आयुर्वैदिक-चिकित्सा-महाविद्यालयस्य उद्घाटनं करिष्यति तथा वीराङ्गना-झलकारी-बाई-महोदयायाः प्रतिमायाः अनावरणमपि करिष्यति।

मुख्यमन्त्रीयोगी-आदित्यनाथस्य माता-कामाख्या-धाम-हेलिपदे आगमनानन्तरं कामाख्या-मन्दिरे दर्शन-पूजन-कार्यक्रमः आयोजितः। तदनन्तरं सः वीराङ्गनाझलकारी-बाई-महोदयायाः प्रतिमायाः अनावरणं करिष्यति। रुदौली-विधानसभाक्षेत्रे विविध-विकास-कार्याणां लोकार्पणं शिलान्यासं च करिष्यति।

मध्याह्ने १२:०५ वादने सः रुदौलीतः गोण्डा-नगरं प्रति प्रस्थितः भविष्यति। १२:२५ वादने गोण्डा-नगरस्य आयुक्त-सभागारे देवीपाटन-बस्ती-मण्डलयोः लोकनिर्माण-विभागस्य पूर्वकार्याणां समीक्षां करिष्यति तथा नवीन-कार्ययोजनासम्बद्धां सभाम् आयोजयिष्यति।

अपराह्णे २:४० वादने सः गोण्डातः अयोध्यां प्रति प्रस्थितः भविष्यति। २:५५ वादने अयोध्यायाः रामकथा-पार्क-हेलिपदं प्राप्स्यति। अपराह्णे ३:०० वादने हनुमानगढी-मन्दिरे दर्शन-पूजनं करिष्यति। ततः परं राममन्दिर-परिसरं गत्वा रामललायाः दर्शन-पूजनं करिष्यति।अपराह्णे ३:३० वादने कार्यक्रमस्थलं ऋषभदेव-दिगम्बर-जैन-मन्दिरं प्राप्स्यति। ततः परम् अपराह्णे ४:२० वादने मणिरामदास-छावनीम् आगमिष्यति। तत्र राममन्दिर-न्यासस्य अध्यक्षस्य महन्त-नृत्यगोपालदास-महोदयस्य जन्मोत्सव-कार्यक्रमे सहभागितां करिष्यति।

सायं ५:१० वादने रामायण-वैक्स-संग्रहालयस्य उद्घाटनं करिष्यति। ततः सायं ६:०० वादने रामकथा-पार्क-हेलिपदात् लखनऊ-नगरं प्रति प्रस्थितः भविष्यति। एवं प्रायः सार्धसप्तपर्यन्तं मुख्यमन्त्री योगी-आदित्यनाथः अयोध्या-गोण्डा-नगरयोः विविधकार्यक्रमेषु सहभागितां करिष्यति।

Hindusthan Samachar / Divya Ranjan