मऊजनपदाय त्रयाणां रेल सुविधानां कृतेऽमिलत् उपहारः, उत्तरप्रदेशस्य मंडलीयमंत्री एके शर्मा कार्यक्रमे सम्मिलितवान्
मऊ, 19 जूनमासः (हि.स.)। रेलमन्त्रालयेन शुक्रवासरे जनपदाय मौवे त्रयः महत्त्वपूर्णाः रेलसुविधाः प्रदत्ताः। दोहरीघाट मौ मेमू रेलयानस्य विस्तारः वाराणसीपर्यन्तं कृतः। आनन्दविहारगामिनी एका रेलसेवा नियमितदैनिकसेवारूपे परिणमिता, तथा च छपरा दिल्ली रेलयान
सांसद और मंत्री हरी झंडी दिखाते हुए


मऊ, 19 जूनमासः (हि.स.)।

रेलमन्त्रालयेन शुक्रवासरे जनपदाय मौवे त्रयः महत्त्वपूर्णाः रेलसुविधाः प्रदत्ताः। दोहरीघाट मौ मेमू रेलयानस्य विस्तारः वाराणसीपर्यन्तं कृतः। आनन्दविहारगामिनी एका रेलसेवा नियमितदैनिकसेवारूपे परिणमिता, तथा च छपरा दिल्ली रेलयानस्य मौमार्गेण सञ्चालनार्थं नूतना व्यवस्था कृता।

शुक्रवासरे छपरानगरे रेलमन्त्री अश्विनी वैष्णवः तथा बिहारराज्यस्य मुख्यमन्त्री सम्राट चौधरी रेलयानस्य हरितध्वजप्रदर्शनं कृतवन्तौ। मौनगरे तु आभासीयमाध्यमेन उत्तरप्रदेशस्य मन्त्रिमण्डलीयमन्त्री ए के शर्मा, स्थानीयः समाजवादीपक्षस्य सांसदः राजीव रायः तथा रेलविभागस्य अधिकारिणः रेलयानानां शुभारम्भम् अकुर्वन्।

मौ जङ्क्शन इत्यत्र रेलमन्त्रालयस्य एतासां नूतनसुविधानाम् उद्घाटनकार्यक्रमस्य समये समाजवादीपक्षस्य भारतीयजनतापक्षस्य च कार्यकर्तृषु तीव्रा मारपीटा घोषणोच्चारणं च अभवत्। उत्तरप्रदेशस्य मन्त्रिमण्डलीयमन्त्रिणः ए के शर्मणः घोसीक्षेत्रस्य समाजवादीपक्षीयसांसदस्य राजीव रायस्य च उपस्थितौ उभयपक्षीयाः समर्थकाः परस्परं सम्मुखीकृताः। अनन्तरं पुलिसबलस्य रेलाधिकारिणां च हस्तक्षेपेन कार्यक्रमः सफलतया सम्पन्नः।

---------------

Hindusthan Samachar / Dheeraj Maithani