यूथ कांग्रेसपदस्य कार्यकर्तारो राहुल गांधिनं निर्मितवन्तः परशुरामं, दुग्धाभिषेकं कृत्वा समाचरञ्जन्मदिनम्
वाराणसी, 19 जूनमासः (हि. स.)। उत्तरप्रदेशस्य वाराणस्यां काङ्ग्रेसदलस्य यूथ काङ्ग्रेसस्य स्थानीयैककस्य जिलाध्यक्षः विकाससिंहः शुक्रवासरे प्रातःकाले गङ्गातटे विपक्षनेतुः राहुलगान्धिनः षट्पञ्चाशत्तमे जन्मदिवसे तस्य चित्रस्य दुग्धाभिषेकं कृत्वा दीर्घ
गंगा घाट पर राहुल गांधी के चित्र पर दुग्धाभिषेक करते यूथ कांग्रेस कार्यकर्ता


वाराणसी, 19 जूनमासः (हि. स.)।

उत्तरप्रदेशस्य वाराणस्यां काङ्ग्रेसदलस्य यूथ काङ्ग्रेसस्य स्थानीयैककस्य जिलाध्यक्षः विकाससिंहः शुक्रवासरे प्रातःकाले गङ्गातटे विपक्षनेतुः राहुलगान्धिनः षट्पञ्चाशत्तमे जन्मदिवसे तस्य चित्रस्य दुग्धाभिषेकं कृत्वा दीर्घायुषः कामनाम् अकरोत्। राहुलगान्धिनः षट्पञ्चाशत्तमे जन्मदिवसे यूथ काङ्ग्रेसस्य कार्यकर्तारः तम् परशुरामावताररूपेण प्रदर्शितवन्तः।

यूथ काङ्ग्रेसस्य जिलाध्यक्षः विकाससिंहः उक्तवान् यत् राहुलगान्धिनं वयं परशुरामस्वरूपं मन्यामहे। एषः अस्माकं भावः अस्ति। तस्य षट्पञ्चाशत्तमे जन्मदिवसे मातुः गङ्गायाः क्रोडे दुग्धेन अभिषेकं कृत्वा तस्य प्रधानमन्त्रिपदप्राप्तये प्रार्थना कृता अस्ति।

सः उक्तवान् यत् राहुलगान्धी स्वस्थः तिष्ठतु तथा च देशस्य संसदि वर्तमानकाले विपक्षनेतुः भूमिकां सम्यक् निर्वहतु। यूथ काङ्ग्रेसस्य सर्वे कार्यकर्तारः स्वभावेन तस्य दीर्घायुषः कामनाम् कुर्वन्ति। काङ्ग्रेसदलस्य कार्यकर्तृणां मनोबलं अस्माकं नेता राहुलगान्धी एवंविधमेव वर्धयतु।

---------------

Hindusthan Samachar / Dheeraj Maithani