Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १९ जूनमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-नगरे मैदागिन-क्षेत्रे स्थिते गोरक्षपीठ-मन्दिर-प्राङ्गणे शुक्रवासरे त्रिशक्ति-सेवा-फाउण्डेशन-संस्थायाः हिन्दू-युवा-वाहिन्याः वाराणसी-मण्डल-विभागस्य च संयुक्त-तत्त्वावधाने त्रिदिवसीय-योग-शिविरस्य दीप-प्रज्वलनेन शुभारम्भः अभवत्। योग-शिविरस्य प्रथम-दिवसे प्रशिक्षकाः, हिन्दू-युवा-वाहिन्याः पदाधिकारीणः, कार्यकर्तारः तथा स्थानीय-नागरिकाश्च उत्साहेन योगाभ्यासं कृतवन्तः।
हिन्दू-युवा-वाहिन्याः वाराणसी-मण्डलस्य अध्यक्षः अम्बरीषसिंह-भोला-महोदयः उक्तवान् यत् अन्ताराष्ट्रिय-योग-दिवसः सम्प्रति सम्पूर्णे विश्वे उत्साहेन आचर्यते। भारते ऋषयः मुनयश्च योगस्य प्रभावेण विविधाः सिद्धीः प्राप्तवन्तः। सः जनान् आह्वानम् अकरोत् यत् सर्वे योगम् स्वीकुर्वन्तु, निरोगाः तिष्ठन्तु तथा “स्वस्थ-भारतं समृद्ध-भारतञ्च” इति भावनां प्रसारयितुं मिलित्वा नियमितरूपेण योगाभ्यासं कुर्वन्तु।
Hindusthan Samachar / Divya Ranjan