Enter your Email Address to subscribe to our newsletters

अयोध्यानगरम्, १९ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथ-महोदयः शुक्रवासरे रुदौली-विधानसभा-क्षेत्रस्थिते माता कामाख्या-धाम्नि वीराङ्गना-झलकारीबाई-महोदयायाः अश्वारूढ-प्रतिमायाः अनावरणं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री ३७८ कोटि-रूप्यक-मूल्यानां १२६ विकास-परियोजनानाम् लोकार्पणं शिलान्यासं च अकरोत्। सः अवदत् यत् १८५७ तमस्य स्वातन्त्र्य-संग्रामस्य समये या भारतस्य स्वाधीनतार्थं विदेशी-शासकान् कठिन-संघर्षाय विवशवती, तस्यै अमर-वीराङ्गनायै झलकारीबाई-महोदयायै सः विनम्रां श्रद्धाञ्जलिम् अर्पयति।
योगी-आदित्यनाथ-महोदयः जनसभां सम्बोधयन् अवदत् यत् राष्ट्रनायकानां, वीराणां तथा वीराङ्गनानां सम्मानम् अस्मभ्यं राष्ट्रभक्तेः प्रेरणां ददाति। अस्याः राष्ट्रभक्तेः भावनायाः प्रेरणया द्वियन्त्र-भाजपा-सर्वकारेण सत्ताग्रहणानन्तरं महाराणी-लक्ष्मीबाई, महाराणी-दुर्गावती, महाराज्ञी-अवन्तीबाई-लोधी, वीराङ्गना-झलकारीबाई तथा वीराङ्गना-ऊदादेवी इत्यासां नाम्ना अनेकानि अभियानानि प्रारब्धानि।
सः अवदत् यत् पीएसी-सङ्घटनस्य त्रयः नवीनाः पक्षाः वीराङ्गना-अवन्तीबाई-लोधी, वीराङ्गना-झलकारीबाई-कोरी तथा वीराङ्गना-ऊदादेवी-पासी इत्येतासां नामभिः गठिताः सन्ति। एतेषु दलेषु केवलं कन्यकाः एव नियुक्ताः भविष्यन्ति। यत्र यत्र पीएसी-पक्षाणां स्थापना भवति, तत्र तत्र अश्वारूढ-प्रतिमाः अपि स्थाप्यन्ते। सः अवदत् यत् भारतस्य स्वाधीनता-संग्रामे क्रान्तिकारिभिः स्वस्य सर्वस्वं राष्ट्राय समर्प्य देशस्य स्वतन्त्रतायै अद्भुतं योगदानं दत्तम्।
अस्मिन् अवसरे विधानपरिषदः सदस्यः हरि-ओम-पाण्डेय-महोदयः, भाजपा-जनपदाध्यक्षः राधेश्याम-त्यागी-महोदयः, भाजपा-जनपद-प्रभारी मिथिलेश-त्रिपाठी-महोदयः, जनपद-पञ्चायत-अध्यक्षा रोली-सिंह-महोदया, विधायकः रामचन्द्र-यादव-महोदयः, बीकापुर-विधायकः अमितसिंह-चौहान-महोदयः, मिल्कीपुर-विधायकः चन्द्रभान-पासवान-महोदयः, पूर्व-विधायकौ खब्बू-तिवारी-महोदयः अभयसिंह-महोदयश्च, ब्लॉक-प्रमुखः राजीव-तिवारी-महोदयः, भाजपा-जनपद-महामन्त्री राघवेन्द्र-पाण्डेय-महोदयः तथा जनपद-मन्त्री अभिषेक-यादव-महोदयः प्रमुखरूपेण उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan