Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २० जूनमासः (हि.स.)। पश्चिमबङ्ग-राज्ये अग्रिम-जूनमासस्य २१ दिनाङ्के आयोज्यमानस्य अन्ताराष्ट्रिय-योग-दिवसस्य पूर्वं शुक्रवासरे प्रातःकाले कोलकाता-नगरे ‘योगाय धावनम् २०२६’ इति कार्यक्रमस्य आयोजनम् अभवत्। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः तथा केन्द्रीय-आयुष-राज्यमन्त्री प्रतापराव-जाधव-महोदयः संयुक्तरूपेण अस्य धावन-कार्यक्रमस्य हरितध्वजं प्रदर्श्य शुभारम्भम् अकुरुताम्।प्रायः द्विकिलोमीटर-दीर्घा एषा धावन-प्रतियोगिता कोलकाता-नगर-निगम-मुख्यालयात् आरभ्य राइटर्स-बिल्डिङ्ग-पर्यन्तम् आयोजिता। मुख्यमन्त्री केन्द्रीयमन्त्री च शतशः नागरिकैः सह अस्मिन् कार्यक्रमे सहभागितां कृतवन्तौ। स्वास्थ्यस्य, शारीरिक-सामर्थ्यस्य तथा योगं प्रति जन-जागरूकतां वर्धयितुम् उद्दिश्य नगरस्य विभिन्न-भागेषु समग्रतः एकादश योग-धावन-कार्यक्रमाः आयोजिताः।
अस्मिन् वर्षे अन्ताराष्ट्रिय-योग-दिवसस्य राष्ट्रिय-स्तरीय-कार्यक्रमस्य आतिथ्यं पश्चिमबङ्ग-राज्यं करोति। जूनमासस्य २१ दिनाङ्के कोलकातायाः रेड-रोड-स्थले आयोज्यमाने मुख्य-समारोहे प्रधानमन्त्री नरेन्द्रमोदी-महोदयः योग-सत्रस्य नेतृत्वं करिष्यति। अस्य वर्षस्य योग-दिवसस्य विषयः “एका पृथिवी, एकस्य स्वास्थ्यस्य कृते योगः” इति निर्धारितः अस्ति।
कार्यक्रमे राज्यस्य क्रीडामन्त्री इन्द्रनील-खान-महोदयः, नगर-विकास-मन्त्री अग्निमित्रा-पॉल-महोदया, उद्योगमन्त्री तापस-राय-महोदयः, प्रसिद्धः टेनिस-क्रीडकः लियेण्डर-पेस-महोदयः, राज्य-सर्वकारस्य कोलकाता-नगर-निगमस्य च वरिष्ठ-अधिकारीणः अपि उपस्थिताः आसन्।
केन्द्रीयमन्त्री प्रतापराव-जाधव-महोदयः सामाजिक-माध्यमे लिखितवान् यत् मुख्यमन्त्रिणा शुभेन्दु-अधिकारी-महोदयेन सह मिलित्वा तेन कोलकाता-नगर-निगमात् राइटर्स-बिल्डिङ्ग-पर्यन्तम् आयोजितस्य मैराथन-धावनस्य शुभारम्भः कृतः। तेन उक्तं यत् अयं कार्यक्रमः ‘स्वच्छतया स्वागत-कार्यक्रमः’ इत्यस्य अन्तर्गतं आयोजितः, यस्मिन् स्वास्थ्यस्य, स्वच्छतायाः तथा नागरिक-कर्तव्यबोधस्य सुन्दरः समन्वयः दृष्टः।धावन-कार्यक्रमानन्तरं केन्द्रीयमन्त्री लियेण्डर-पेस-महोदयेन अन्यैः गण्यमान्य-जनैश्च सह योग-सत्रे अपि सहभागितां कृतवान्।
अस्मिन् अवसरे मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः अवदत् यत् योगः अद्य वैश्विक-जनान्दोलनरूपेण प्रतिष्ठितः अस्ति, यः शारीरिक-स्वास्थ्यं, मानसिक-सन्तुलनं तथा स्वस्थ-जीवनशैलीं प्रोत्साहयति। तेन जनाः स्वदैनिक-जीवने योगस्य समावेशं कुर्वन्तु इति आह्वानम् अकरोत्।
मुख्यमन्त्री अवदत् यत् “आनन्द-नगरी” कोलकातानगरं स्वास्थ्याय शारीरिक-सामर्थ्याय च धावति। ‘योगाय धावनम्’ इत्यादृशः प्रयत्नः स्वास्थ्यं, स्वच्छतां, नागरिक-उत्तरदायित्वं तथा समग्र-कल्याणस्य मूल्यानि एकत्र संयोजयति। नागरिकाणाम् उत्साहपूर्ण-सहभागितायाः प्रशंसां कुर्वन् सः अवदत् यत् जनानाम् ऊर्जा सहयोगश्च प्रेरणादायकः अस्ति।
योग-दिवसात् पूर्वं जन-जागरूकता-अभियानस्य व्यापक-प्रसारार्थं कोलकाता-नगरस्य अन्येषु दश स्थानेषु अपि समकालमेव योग-धावन-कार्यक्रमाः आयोजिताः। एतदतिरिक्तं राज्य-सर्वकारेण योग-शिविराणि, जागरूकता-अभियानानि, स्वच्छता-कार्यक्रमाश्च इत्येतैः सह विविधाः गतिविधयः आयोज्यन्ते, येन जूनमासस्य २१ दिनाङ्कस्य मुख्य-समारोहः सफलतया सम्पन्नः भवेत्।
Hindusthan Samachar / Divya Ranjan