Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २० जूनमासः (हि.स.)। पश्चिमबङ्ग-राज्ये अग्रिम-जूनमासस्य २१ दिनाङ्के आयोज्यमानस्य द्वादश-अन्ताराष्ट्रिय-योग-दिवसस्य राष्ट्रीय-समारोहस्य सज्जता अन्तिमचरणं प्राप्तवती। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य कोलकाता-नगरागमनं प्रति भारतीय-जनता-पक्षस्य नेतारः एतत् राज्यस्य कृते ऐतिहासिकं क्षणम् इति वर्णितवन्तः। तेषां मते प्रधानमन्त्री-महोदयस्य उपस्थित्या योग-दिवस-समारोहः अभूतपूर्वरूपं धारयिष्यति तथा बङ्गालः ऐतिहासिक-घटनायाः साक्षी भविष्यति।
राज्यस्य क्रीडामन्त्री इन्द्रनील-खान-महोदयः उक्तवान् यत् पश्चिमबङ्गः उत्सुकतया प्रधानमन्त्रीणः आगमनस्य प्रतीक्षां करोति। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य नेतृत्वे योगः अद्य जनान्दोलनस्य रूपं प्राप्तवान् अस्ति तथा राज्ये सहस्रशः जनाः योगे, ध्याने, स्वास्थ्यसम्बद्ध-कार्यक्रमेषु च भागं गृह्णन्ति।
सः अवदत् — “पश्चिमबङ्गः इतिहासस्य साक्षी भविष्यति, यतः प्रधानमन्त्री नरेन्द्रमोदी-महोदयः कोलकाताम् आगच्छति तथा अस्माभिः सह योग-दिवसं आचरिष्यति। दीर्घकालपर्यन्तं राज्ये योग-दिवसः यथोचित-स्तरे न आचरितः। अधुना बहुसंख्यकाः जनाः योगेन ध्यानेन च सम्बद्धाः भवन्ति। स्वामी-विवेकानन्दस्य भूमिः बङ्गालः योगेन आध्यात्मिक-परम्परया च प्रगाढसम्बन्धं धारयति।”
केन्द्रीय-आयुष-राज्यमन्त्री प्रतापराव-जाधव-महोदयः अपि समारोहस्य महत्त्वं प्रतिपादयन् अवदत् यत् प्रधानमन्त्रीणः उपस्थितिः कार्यक्रमं अधिकं विशिष्टं करिष्यति। तेन उक्तं यत् जूनमासस्य २१ दिनाङ्के रेड-रोड-स्थले आयोज्यमाने राष्ट्रीय-समारोहे प्रधानमन्त्री स्वयमेव जनैः सह योगाभ्यासं करिष्यति, यत् कोलकाता-नगरस्य सम्पूर्ण-पश्चिमबङ्गस्य च गौरवस्य विषयः अस्ति।केन्द्रीयमन्त्री अवदत् यत् पूर्ववर्तिभिः सर्वकारैः योगाय यथेष्टं महत्त्वं न दत्तम्, किन्तु अद्य योगः वैश्विक-आन्दोलनरूपेण प्रतिष्ठितः अस्ति तथा भारतं तस्य नेतृत्वं करोति। प्रधानमन्त्री-महोदयस्य प्रयत्नैः योगाय विश्वव्यापिनी मान्यता प्राप्ता इति अपि तेन उक्तम्।
राज्यस्य उद्योगमन्त्री तापस-राय-महोदयः अवदत् यत् योगः भारतस्य प्राचीनधरोहरः अस्ति तथा प्रधानमन्त्री-महोदयेन तस्मै देशे विदेशे च नूतनः परिचयः प्रदत्तः। योगः जनान् शारीरिकरूपेण सक्रियान् मानसिकरूपेण च सन्तुलितान् स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहतीति तेन उक्तम्।एतस्मिन् मध्ये योग-दिवसस्य पूर्वम् आयोजितेषु कार्यक्रमेषु शुक्रवासरे कोलकातायां “धावनात् ध्यानम्” इति नाम्ना मैराथन-प्रतियोगिता आयोजिता। मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः कोलकाता-नगर-निगम-मुख्यालयात् हरित-ध्वजं प्रदर्श्य अस्याः प्रतियोगितायाः शुभारम्भम् अकरोत्। कार्यक्रमः राइटर्स-बिल्डिङ्ग-पर्यन्तम् आयोजितः, यस्मिन् इन्द्रनील-खानः, अग्निमित्रा-पॉल-महोदया, तापस-रायः, विधायकः विजय-ओझा, मुख्य-सचिवः मनोज-अग्रवालः अन्ये च वरिष्ठ-अधिकारीणः गणमान्य-जनाश्च सम्मिलिताः अभवन्।
जूनमासस्य २१ दिनाङ्के कोलकातायाः ऐतिहासिके रेड-रोड-स्थले आयोज्यमाने राष्ट्रीय-समारोहे प्रधानमन्त्री नरेन्द्रमोदी-महोदयः सामान्य-योग-नियमानुसारम् योगाभ्यासस्य नेतृत्वं करिष्यति। कार्यक्रमात् पूर्वं नवान्न-सभागारे आयोजिते विशेष-संवाददाता-सम्मेलने मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः तथा केन्द्रीयमन्त्री प्रतापराव-जाधव-महोदयः सहभागितां कृतवन्तौ।
अस्मिन् अवसरे अन्ताराष्ट्रिय-योग-दिवस-२०२६ इत्यस्मै समर्पितानि द्वादश विशेष-डाक-आवरणानि अपि विमोचितानि। कार्यक्रमे पश्चिमबङ्ग-परिमण्डलस्य मुख्य-डाक-महाध्यक्षः अशोक-कुमार-महोदयः अपि उपस्थितः आसीत्।
मुख्यमन्त्री शुभेन्दु-अधिकारी-महोदयः अवदत् यत् राष्ट्रीय-स्तरीय-योग-दिवस-समारोहस्य आतिथ्यं कर्तुं पश्चिमबङ्गस्य कृते गौरवस्य विषयः अस्ति। तेन उक्तं यत् कोलकातायाः समृद्धा सांस्कृतिक-बौद्धिक-आध्यात्मिक-परम्परा एतादृश-कार्यक्रमस्य आयोजनाय ताम् उपयुक्तं स्थलम् करोति।
योग-दिवसात् पूर्वं सम्पूर्णे राज्ये विविधाः कार्यक्रमाः आयोज्यन्ते। तेषु स्वास्थ्याय द्विचक्रिका-अभियानम्, विद्यालयेषु सर्वकारीय-कार्यालयेषु च योग-सत्राणि, मानसिक-स्वास्थ्य-जागरूकता-कार्यक्रमाः, महिला-स्वास्थ्य-पहलाः, वरिष्ठ-नागरिकाणां कृते विशेष-योग-शिविराणि, निगमीय-योग-कार्यक्रमाः तथा आरक्षक-अग्निशमन-स्वास्थ्यकर्मिणां कृते विशेष-सत्राणि च अन्तर्भवन्ति।
जूनमासस्य २० दिनाङ्के हुगली-नदी-तटे “वन्दे योगम्” तथा पश्चिमबङ्ग-दिवस-कार्यक्रमौ अपि आयोज्येते। एतेषु कार्यक्रमेषु सांस्कृतिक-प्रस्तुतयः, कला-छायाचित्र-प्रतियोगिताः तथा जनसहभागितासम्बद्धाः विविधाः कार्यक्रमाः अन्तर्भवन्ति।
योग-दिवस-समारोहस्य अन्तर्गतं हुगली-नद्यां पञ्चशतं नौकासु सामूहिक-योग-प्रदर्शनम् अपि भविष्यति, यत् बङ्गालस्य नदी-संस्कृतेः योगस्य च सम्बन्धं प्रदर्शयिष्यति। एतदतिरिक्तं नगरे योग-विषयिणी विशेष-प्रकाश-सज्जा, प्रमुख-सेतुषु आकर्षक-दीप-व्यवस्था तथा प्रायः ३००० ड्रोन-यानैः भव्यः ड्रोन-प्रदर्शन-कार्यक्रमः अपि आयोज्यते, यस्मिन् भारतस्य योग-यात्रा तथा प्रसिद्ध-योगाचार्याः प्रदर्शिताः भविष्यन्ति।
जूनमासस्य २१ दिनाङ्के प्रातः ५ वादने रेड-रोड्-स्थले राष्ट्रीय-समारोहस्य शुभारम्भः भविष्यति। अस्मिन् कार्यक्रमे सहस्रशः जनाः प्रत्यक्षरूपेण सहभागीभविष्यन्ति इति अपेक्षा अस्ति, यदा च देश-विदेशेभ्यः लक्षशः जनाः आभासीय-माध्यमेन अस्मिन् संयोजिताः भविष्यन्ति। आयोजकानां मतम् अस्ति यत् एषः समारोहः स्वास्थ्यस्य, सामञ्जस्यस्य तथा समग्र-कल्याणस्य वैश्विक-सन्देशं अधिकं सुदृढं करिष्यति।
Hindusthan Samachar / Divya Ranjan