Enter your Email Address to subscribe to our newsletters

सिलीगुडीनगरम्, १९ जूनमासः (हि.स.)। सिलीगुडी-नगर-निगमस्य महापौरः गौतमदेवः शुक्रवासरे स्वपदात् त्यागपत्रम् अयच्छत्। प्राप्तसूचनानुसारं सः स्वपदत्यागस्य निर्णयं पूर्वमेव दल-नेतृत्वाय निवेदितवान् आसीत्। ततः शुक्रवासरे सः प्रशासनाय औपचारिकरूपेण स्वस्य त्यागपत्रम् समर्पितवान्। अर्वाचीनकाले एव तस्य तृणमूल-काङ्ग्रेस-दलस्य दार्जिलिङ्ग-जनपदस्य समितेः अध्यक्षत्वेन नियुक्तिः कृता। दलस्य अभिप्रायः अस्ति यत् सः सङ्घटनात्मक-कार्येषु अधिकां सक्रियां भूमिकां निर्वहेत्।
विश्वसनीय-सूत्रानुसारं परिवर्तितासु राजनैतिक-परिस्थितिषु प्रशासनिक-कार्याणि सम्यक् प्रकारेण सम्पादयितुम् अशक्नुवन् इति कारणेन सः एतादृशं निर्णयम् अकरोत्। गुरुवासरे महापौर-परिषदा सह सम्पन्नायां सभायामपि सः स्वस्य पदत्यागेच्छां प्रकटितवान्।
गौतमदेवस्य राजनैतिक-जीवनम् अत्यन्तं महत्त्वपूर्णम् अस्ति। २०११ तमे वर्षे राज्ये सत्तापरिवर्तनानन्तरं सः उत्तर-बङ्ग-विकास-विभागस्य मन्त्री नियुक्तः। २०१६ तमे वर्षे निर्वाचने विजयं प्राप्य मुख्यमन्त्रिणा ममता-बनर्जी-महोदयया तस्मै पर्यटन-विभागस्य मन्त्रिपदम् अर्पितम्। किन्तु २०२१ तमे वर्षे विधानसभानिर्वाचने तस्य पराजयः अभवत्। ततः २०२२ तमे वर्षे सिलीगुडी-नगर-निगम-निर्वाचने तृणमूल-काङ्ग्रेस-दलस्य विजयात् परं सः महापौरः नियुक्तः। किन्तु २०२६ तमे वर्षे विधानसभानिर्वाचने सिलीगुडी-निर्वाचन-क्षेत्रात् पुनः तस्य पराजयः अभवत्। नगरस्य सर्वेषु वार्डेषु दलस्य दुर्बल-प्रदर्शनस्य विषये आन्तरिक-असन्तोषोऽपि प्रकटितः। ततः प्रभृति: तस्य महापौर-पदत्यागस्य विषये विविधाः वार्ता: प्रचलिताः आसन्।
Hindusthan Samachar / Divya Ranjan