अंक सत्यापनाय, उत्तर पुस्तिकायाः पुनर्मूल्यांकनाय च सीबीएसईद्वारा ऑनलाइनमाध्यमेन पटलं सजीवम्
नव दिल्ली, 02 जूनमासः (हि.स.)। केन्द्रीयमाध्यमिकशिक्षामण्डलेन अङ्कसत्यापनार्थम् उत्तरपुस्तिकानां पुनर्मूल्याङ्कनार्थञ्च मङ्गलवासरे ऑनलाइनपटलं सक्रियीकृतम्। सीबीएसई इत्यनेन स्वस्य आधिकारिक-एक्स-हैण्डले सूचितम् यत् दशमकक्षायाः द्वादशकक्षायाश्च छात्
प्रतीकात्मक चित्र


नव दिल्ली, 02 जूनमासः (हि.स.)।

केन्द्रीयमाध्यमिकशिक्षामण्डलेन अङ्कसत्यापनार्थम् उत्तरपुस्तिकानां पुनर्मूल्याङ्कनार्थञ्च मङ्गलवासरे ऑनलाइनपटलं सक्रियीकृतम्। सीबीएसई इत्यनेन स्वस्य आधिकारिक-एक्स-हैण्डले सूचितम् यत् दशमकक्षायाः द्वादशकक्षायाश्च छात्राणां कृते आधिकारिकम् ऑनलाइनपटलम् अधुना सक्रियं जातम्। अस्य आधिकारिकाधिसूचना सीबीएसई इत्यस्य मुख्यजालपुटे प्रकाशितास्ति।

अस्मात्पूर्वं षड्विंशतितमे मेमासे सक्रियीकरणार्थं निर्धारितम् एतत् ऑनलाइनपोर्टल् तान्त्रिकदोषकारणात् प्रथमजूनपर्यन्तं विस्तारितम् आसीत्, किन्तु अन्यकारणैः तस्मिन्नपि दिवसे आरम्भः नाभवत्। अद्य तत् सक्रियं जातम्।

सीबीएसई इत्यनेन विद्यार्थिनां कृते आधिकारिकपोर्टल्-संयोजनम् postresult.cbseit.in/pvr/ इति सामायिकीकृतम्। अस्मिन् विद्यार्थिनः स्वीयानाम् अङ्कानां सत्यापनार्थं उत्तरपुस्तिकानां पुनर्मूल्याङ्कनार्थञ्च निर्देशात्मकदृश्यावलोकनं कृत्वा आवेदनप्रक्रियां सम्पूर्णां कर्तुं शक्नुवन्ति।

उल्लेखनीयं यत् सीबीएसई इत्यनेन बोर्डपरीक्षायाः अङ्कैः असन्तुष्टेभ्यः छात्रेभ्यः स्वकीयउत्तरपुस्तिकानां पुनः परीक्षणस्य अवसरः प्रदीयते। एषा प्रक्रिया मुख्यतया त्रिषु चरणेषु भविष्यति। प्रथमे चरणे अङ्कसत्यापनम्, द्वितीये चरणे मूल्याङ्कनपत्रस्य प्रतिलिपिः, तृतीये चरणे पुनर्मूल्याङ्कनं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani