‘आयुषः भवतः द्वारे’ योजनायाः अन्तर्गतं अयोध्या-छावन्यां होमियोपैथिक-बहिरङ्ग-चिकित्साकेन्द्रस्य शुभारम्भः
अयोध्यानगरम्, ०२ जूनमासः (हि.स.)। उत्तरप्रदेश-शासनस्य आयुष-विभागस्य जनकल्याणकारी-योजनायाः ‘आयुषः भवतः द्वारे’ इत्यस्याः अन्तर्गतं मङ्गलवासरे राजकीय-डॉ.बृजकिशोर-होमियोपैथिक-चिकित्सा-महाविद्यालयेन चिकित्सालयेन च, देवकाली-स्थानेन, छावनी-क्षेत्रस्थिते
आयुष आपके द्वार योजना


अयोध्यानगरम्, ०२ जूनमासः (हि.स.)। उत्तरप्रदेश-शासनस्य आयुष-विभागस्य जनकल्याणकारी-योजनायाः ‘आयुषः भवतः द्वारे’ इत्यस्याः अन्तर्गतं मङ्गलवासरे राजकीय-डॉ.बृजकिशोर-होमियोपैथिक-चिकित्सा-महाविद्यालयेन चिकित्सालयेन च, देवकाली-स्थानेन, छावनी-क्षेत्रस्थिते ब्रिगेड-कमान्डरस्य व्यावसायिक-प्रशिक्षण-केन्द्रे होमियोपैथिक-बहिरङ्ग-चिकित्साकेन्द्रस्य (ओपीडी) शुभारम्भः कृतः। प्रथम-दिने ३० रोगिणां परीक्षणं कृत्वा तेभ्यः आवश्यकं चिकित्सकीय-परामर्शं औषधानि च प्रदत्तानि।

महाविद्यालयस्य प्राचार्यस्य डॉ.आशीषकुमार-सिंहस्य मार्गदर्शने आयोजितस्य अस्य कार्यक्रमस्य उद्देश्यं सैनिकेभ्यः तेषां परिवारजनभ्यश्च सुलभाः, समग्राः, गुणवत्तायुक्ताः च स्वास्थ्य-सेवाः प्रदातुम् अस्ति। अस्मिन् अवसरे सैनिकेभ्यः होमियोपैथिक-चिकित्सा-पद्धतेः लाभानां विषये अपि जानकारी प्रदत्ता। प्राचार्यः डॉ.सिंहः उक्तवान् यत् होमियोपैथिक-चिकित्सा न केवलं शारीरिक-स्वास्थ्यस्य, अपितु मानसिक-भावनात्मक-स्वास्थ्यस्य अपि सुदृढीकरणे सहायकाऽस्ति।

तेन उक्तं यत् सैनिकाः सेवाकाले चिन्ता, अनिद्राम्, मानसिक-चिन्ता इत्यादीनां समस्याः अनुभवन्ति, तासां व्यवस्थापने होमियोपैथिक-चिकित्सा प्रभावी भूमिका निर्वहितुं शक्नोति। बहिरङ्ग-चिकित्साकेन्द्रस्य सञ्चालनं चिकित्सा-अधिकारिण्या डॉ. ऋचा-पाण्डे तथा प्रशिक्षार्थिन्या कविता-यादव-इत्यनया कृतम्। परामर्शानन्तरं रोगिभ्यः आवश्यक-होमियोपैथिक-औषधीनाम् अपि वितरणं कृतम्।

कार्यक्रमे प्राध्यापकः डॉ.चन्द्रशेखर-यादवः तथा डॉ.विकास-मिश्रः अपि सहभागित्वा जन-जागरूकता-गतिविधिषु आयोजनस्य सफल-सञ्चालने च सहयोगं प्रदत्तवन्तौ। एतत् होमियोपैथिक-बहिरङ्ग-चिकित्साकेन्द्रं प्रतिमङ्गलवासरे प्रातः ११ वादनात् अपराह्णे १ वादनपर्यन्तं सञ्चालितं भविष्यति। आवश्यकतानुसारं भविष्ये अस्य सेवायाः विस्तारः अपि कर्तुं शक्यते।

Hindusthan Samachar / Divya Ranjan