सङ्गीतकारैः मुख्यमन्त्रिणः समीपे सूचनां कृत्वा पूर्व-सर्वकारे ‘सिन्डिकेटराज’ इति आरोपः कृतः
कोलकातानगरम्, ०२ जूनमास: (हि.स.)। राज्यराजनीत्यां सत्ता-परिवर्तनानन्तरम् अधुना सङ्गीतजगतः सम्बद्धैः कलाकारैः अपि स्वकीयाः सूचना: प्रत्यक्षं मुख्यमन्त्रिणः शुभेन्दु-अधिकारीणः समक्षे प्रस्तुताः। मङ्गलवासरे साल्टलेक-स्थिते भारतीय-जनता-पक्ष-कार्यालये आ
जनता दरबार में शुभेंदु अधिकारी


कोलकातानगरम्, ०२ जूनमास: (हि.स.)। राज्यराजनीत्यां सत्ता-परिवर्तनानन्तरम् अधुना सङ्गीतजगतः सम्बद्धैः कलाकारैः अपि स्वकीयाः सूचना: प्रत्यक्षं मुख्यमन्त्रिणः शुभेन्दु-अधिकारीणः समक्षे प्रस्तुताः। मङ्गलवासरे साल्टलेक-स्थिते भारतीय-जनता-पक्ष-कार्यालये आयोजिते जनश्रवण-कार्यक्रमे गायिका ऋद्धि बन्द्योपाध्याय;, दोला मुखोपाध्याय: इत्यादयः अनेकाः सङ्गीतकाराः मुख्यमन्त्रिणा साकं मिलित्वा पूर्ववर्तिनः तृणमूल-सर्वकारस्य कार्यकालं प्रति विविधाः आरोपाः अकुर्वन्।

कलाकाराणां आरोपः अस्ति यत् पूर्वशासनकाले सङ्गीतजगति कथितं “सिन्डिकेटराजम्” प्रवर्तते स्म। तेषां कथनम् अस्ति यत् सरकारी-सांस्कृतिक-कार्यक्रमेषु अवसरप्राप्त्यर्थं कटमनी-रूपेण धनग्रहणं क्रियते स्म, तथा च एकस्मात् विशेषसमूहसम्बद्धेभ्यः कलाकारेभ्यः प्राथमिकता प्रदीयते स्म। पूर्व-सूचना-एवं-संस्कृति-मन्त्री इन्द्रनील-सेन इत्यस्मिन् अपि तैः पक्षपातस्य आरोपाः कृताः।

सूचनाकर्तृणां कथनम् अस्ति यत् बहवः योग्याः कलाकाराः केवलं राजनैतिककारणैः एव सरकारी-मञ्चेषु प्रस्तुतेः अवसरं न प्राप्तवन्तः। तेषां आरोपः यत् ये कलाकाराः तात्कालिक-शासक-दलस्य समीपे न आसन्, ते निरन्तरं उपेक्षिताः अभवन्। ते मुख्यमन्त्रिणं प्रार्थयन्ति यत् नूतन-शासनकाले कलाकारेभ्यः योग्यता-आधारेण अवसराः दीयन्ताम् तथा च कथित-भेदभावस्य जाँचः क्रियताम्।

कलाकारैः इदमपि आरोपितं यत् राज्यस्य अनेके स्थानीय-कलाकाराः अवसरं न प्राप्तवन्तः, यद्यपि अन्यराज्येभ्यः तथा विदेशेभ्यः, विशेषतः बाङ्गलादेशतः आगताः कलाकाराः कार्यक्रमेषु स्थानं प्राप्तवन्तः। तेषां मतम् अस्ति यत् अस्य व्यवस्थायाः कारणात् राज्यस्य बहवः प्रतिभाशालिनः कलाकाराः दीर्घकालं यावत् अवसरवञ्चिताः अभवन्।

एतेषां आरोपान् प्रति प्रतिक्रिया-रूपेण पूर्वमन्त्री इन्द्रनील-सेनः उक्तवान् यत् सः एतादृशेषु आरोपेषु टिप्पणीं कर्तुं उचितं न मन्यते। सः अवदत् यत् विगतेषु पञ्चदशवर्षेषु सहस्रशः कलाकाराः विविधेषु कार्यक्रमेषु प्रस्तुतीं कृतवन्तः, यदि कश्चन प्रमाणयितुं शक्नुयात् यत् तेन एकरूप्यकमपि अनुचितलाभः गृहीतः, तर्हि प्रशासनं यत् किञ्चित् कार्यवाहीं करिष्यति तत् सः स्वीकरिष्यति। सः एतान् आरोपान् राजनैतिकरङ्गप्रदानेन युक्तान् इति उक्त्वा दुर्भाग्यपूर्णम् इति च अवर्णयत्।

अस्मिन् एव काले जनश्रवण-कार्यक्रमे केवलं कलाकाराः एव न, अपि तु निर्वाचनानन्तर-हिंसया पीडितानां परिवारजनाः अपि समुपस्थिताः अभवन्। दक्षिण-चतुर्विंशति-परगना-जनपदस्य कुलतली-निवासी बाबुसेना-मण्डलः आरोपं कृतवान् यत् निर्वाचनानन्तर-हिंसायां सः स्वस्य षड्वर्षीयं पुत्रं हतवन्तम् अभवत्। उत्तर-चतुर्विंशति-परगना-जनपदस्य रहड़ा-निवासिनी शर्वाणी राय अपि २०१४ तमे वर्षे निर्वाचन-हिंसायां भ्रातुः मृत्युसम्बद्धं प्रकरणं पुनः उत्थाप्य न्यायं याचितवती।

काकद्वीप-निवासी कर्करोग-पीडितः भोलनाथ-शी अपि मुख्यमन्त्रिणः साक्षात्कारे आगतः। तस्य कथनं यत् चिकित्सासहायतायै सः पूर्व-सरकारे बहुवारं निवेदनं कृतवान्, किन्तु काचित् सहायता न प्राप्ता। अधुना सः नूतन-सर्वकारतः चिकित्सा-सहायतायाः आशां प्रकटितवान्।

मुख्यमन्त्रिणः जनश्रवण-कार्यक्रमे विविध-वर्गीयजनाः स्वकीयाः समस्याः तथा सूचना: प्रस्तूय समाधानं न्यायं च प्रार्थितवन्तः।

Hindusthan Samachar / Divya Ranjan