Enter your Email Address to subscribe to our newsletters

रायपुरम्/कांकेरम्, ०२ जूनमासः (हि.स.)। मुख्यमंत्रिण: विष्णुदेव-साय-महाभागस्य द्विदिवसीय-बस्तर-प्रवासस्य द्वितीय-दिवसे अद्य मंगलवारे कांकेर-नगर्यां विकास-कार्याणां तथा सुशासन-तिहार-सम्बद्धानां महत्त्वपूर्णानां सभानां आयोजनं भविष्यति।
जनपद-पञ्चायत-सभागृहे आयोजितायां समीक्षा-सभायां बस्तर-सम्भागस्य चतुर्णां जनपदानां विकास-कार्याणां, जनकल्याणकारी-योजनानां तथा प्रशासनिक-व्यवस्थानां विस्तृत-समीक्षा करिष्यते।
मुख्यमंत्री प्रातः १० वादनतः सायं ७ वादनपर्यन्तं सुशासन-तिहार-कार्यक्रमे सम्मिलितः भूत्वा भूमिस्तरे योजनानां क्रियान्वयनस्य निरीक्षणं करिष्यति। राज्य-सरकारस्य प्राथमिकतानां विकास-कार्याणां च प्रगतिविषये अधिकारिभिः सह विस्तृता चर्चा अपि भविष्यति।
प्रवासेन सह मुख्यमंत्री भाजपा-दलस्य वरिष्ठ-नेता-स्वर्गीय- महावीरसिंह-राठौड: तथा स्वर्गीय-भारत-मटियारा इत्येतयोः परिजनान् मिलित्वा स्वसंवेदना-प्रकाशनं कर्तुं शक्नोति। कांकेर-नगर्यां तस्य रात्रि-विश्रामस्य अपि सम्भावना अस्ति।
Hindusthan Samachar / Divya Ranjan