अपेक्षितेभ्यो दापितः कल्याणकारी योजनानां लाभः : मुख्यमंत्री योगी
मुख्यमंत्री योगी जनता दर्शने प्रायेण 200 जनानाम् अशृणोत्समस्याः गोरखपुरम्, 02 जूनमासः (हि.स.)।मुख्यमन्त्री योगीआदित्यनाथः जनतादर्शने अधिकारिणः निर्देशयन् उक्तवान् यत् शासनस्य कल्याणकारीयोजनानां लाभः प्रत्येकस्मै पात्रनागरिकाय प्राप्यताम् इति सुनि
अधिकारियों को सीएम ने दिए निर्देश, जन समस्याओं पर दिखाएं त्वरित संवेदनशीलता*


अधिकारियों को सीएम ने दिए निर्देश, जन समस्याओं पर दिखाएं त्वरित संवेदनशीलता*


अधिकारियों को सीएम ने दिए निर्देश, जन समस्याओं पर दिखाएं त्वरित संवेदनशीलता*


अधिकारियों को सीएम ने दिए निर्देश, जन समस्याओं पर दिखाएं त्वरित संवेदनशीलता*


अधिकारियों को सीएम ने दिए निर्देश, जन समस्याओं पर दिखाएं त्वरित संवेदनशीलता*


मुख्यमंत्री योगी जनता दर्शने प्रायेण 200 जनानाम् अशृणोत्समस्याः

गोरखपुरम्, 02 जूनमासः (हि.स.)।मुख्यमन्त्री योगीआदित्यनाथः जनतादर्शने अधिकारिणः निर्देशयन् उक्तवान् यत् शासनस्य कल्याणकारीयोजनानां लाभः प्रत्येकस्मै पात्रनागरिकाय प्राप्यताम् इति सुनिश्चितं क्रियताम्। आवासत: आरभ्य चिकित्सापर्यन्तं, कन्यायाः शिक्षातः विवाहपर्यन्तं, निराश्रितानां वृद्धानां च पेंशनपर्यन्तं समाजस्य प्रत्येकस्मै आवश्यकजनाय सर्वकारस्य अनेकाः योजनाः सन्ति। सर्वेभ्यः पात्रेभ्यः जनाभ्यः आवेदनं कारयित्वा एतासां योजनानां लाभः तेषां पर्यन्तं प्राप्यताम्।

गोरखपुरे सोमवासरे सायंकाले प्राप्तः मुख्यमन्त्री योगीआदित्यनाथः मङ्गलवासरे प्रातः गोरखनाथमन्दिरे आयोजिते जनतादर्शने प्रायः द्विशतजनैः सह मिलित्वा तेषां समस्याः अशृणोत्। अस्मिन् अवसरे तेन आवश्यकजनेभ्यः आवाससहितानां अन्ययोजनानां लाभं प्रदातुं गम्भीररोगपीडितानां चिकित्सायै पर्याप्ताम् आर्थिकसहायतां दातुं च आत्मीयसाहाय्यं प्रदत्तम्।

तेन उक्तं यत् सर्वकारः प्रत्येकस्मै आवश्यकाय पात्रव्यक्तये कल्याणकारीयोजनानां लाभं प्रदातुं तथा प्रत्येकस्य समस्यायाः प्रभाविनिस्तारणार्थं संकल्पितः अस्ति। तेन जनाः उक्ताः यत् योजनानां लाभप्राप्तये ते अवश्यं आवेदनं कुर्वन्तु। अस्य विषये तेन अधिकारिणः अपि निर्देशिताः यत् प्रत्येकस्य पात्रव्यक्तेः सम्बन्धितयोजनायां आवेदनं कारयित्वा लाभः प्रदीयताम्।

जनतादर्शने आगतानां जनानां समस्याः श्रुत्वा सीएम् योगी प्रार्थनापत्राणि निस्तारणार्थं सम्बन्धितप्रशासनिकपुलिसाधिकारिभ्यः संप्रेष्य निर्देशितवान् यत् सर्वासां समस्याणां निस्तारणं समयबद्धं निष्पक्षं सन्तोषजनकं च भवेत्।

मुख्यमन्त्री अधिकारिणः उक्तवान् यत् ते जनसमस्यासु शीघ्रं संवेदनशीलतां प्रदर्शयन्तु। जनतादर्शने प्रत्येकवारमिव अस्मिन्नपि वारे केचन जनाः चिकित्सार्थम् आर्थिकसाहाय्यस्य प्रार्थनां कृत्वा आगतवन्तः। मुख्यमन्त्री तान् आश्वासितवान् यत् धनाभावेन कस्यचित् चिकित्सायाः अवरोधः न भविष्यति। तेन अधिकारिणः निर्देशिताः यत् ये केऽपि आवश्यकजनाः सन्ति, प्रशासनं तेषां उच्चस्तरीयचिकित्सायाः इस्टीमेट् शीघ्रतया निर्माप्य उपलब्धं करोतु। इस्टीमेट प्राप्तमात्रेण सर्वकारः तत्क्षणं धनं प्रदास्यति।

जनतादर्शने जौनपुरजिल्लातः आगता एका महिला एकस्य एनजीओ संस्थायाः उपरि मिथ्याप्रमाणपत्रप्रदानस्य आरोपं कृत्वा तस्य विरुद्धं जाँचस्य मागं कृतवती। अस्मिन् विषये मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् प्रकरणे जाँचां कृत्वा आवश्यककार्यवाही क्रियताम्। भूम्यधिक्रमणसम्बद्धासु शिकायतासु मुख्यमन्त्री योगीआदित्यनाथः पुलिसविभागं निर्देशितवान् यत् यदि कश्चित् दबङ्गः कस्यचित् भूमिं बलात् अधिक्रामति तर्हि तस्य विरुद्धं कठोरकार्यवाही क्रियताम्। जनतादर्शने परिवारजनैः सह आगतेभ्यः बालकेभ्यः मुख्यमन्त्री योगीआदित्यनाथः अत्यन्तं स्नेहं प्रदर्श्य आशीर्वादं दत्तवान्। सहैव तान् उत्तमरीत्या अध्ययनाय प्रेरयन् चाकलेहम् अपि दत्तवान्।

मन्दिरस्य गोशालायां सीएम् योगी गोसेवाम् अकरोत्

गोरखनाथमन्दिरप्रवासस्य समये मङ्गलवासरे प्रातः जनतादर्शनं स्थापयित्वा जनसेवां कुर्वन् मुख्यमन्त्री योगीआदित्यनाथः मन्दिरस्य गोशालां गत्वा गोसेवाम् अपि अकरोत्। तेन स्नेहपूर्णस्पर्शेन गावः गोवंशांश्च सस्नेहं दुलारिताः। स्वहस्ताभ्यां गुडरोटिकां खादयित्वा गोशालाकार्यकर्तॄन् गोवंशस्य समुचितपरिचर्यायाः निर्देशान् अपि दत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani