Enter your Email Address to subscribe to our newsletters

शिमला, 02 जूनमासः (हि.स.)।
मुख्यमन्त्री ठाकुर सुखविन्द्र सिंह सुक्खूः मंगलवासरे जनगणना-२०२७ अन्तर्गत सञ्चाल्यमाने स्वगणना (सेल्फ एन्यूमरेशन) अभियाने सहभागित्वं कृतवान् तथा ऑनलाइनपोर्टल se.census.gov.in माध्यमेन जनगणनासम्बद्धां स्वीयां सूचनां अभिलेखितवान्। अस्मिन् अवसरे हिमाचलप्रदेशस्य जनगणनासञ्चालननिदेशिका दीप शिखा शर्मा तथा विभागस्य वरिष्ठाधिकारीणः मुख्यमन्त्रिणे डिजिटलजनगणनायाः प्रक्रिया, तस्याः प्रमुखविशेषताः तथा नागरिकेभ्यः उपलब्धाः सुविधाः इत्यादीनां विषये विस्तृतां जानकारीं प्रदत्तवन्तः।
मुख्यमन्त्री प्रदेशवासिनः अस्मिन् महत्त्वपूर्णराष्ट्रीयअभियाने सक्रियरूपेण सहभागित्वं कर्तुं तथा १५ जून २०२६ पर्यन्तं स्वगणनां पूर्णां कर्तुं आग्रहं कृतवान्। तेन उक्तं यत् जनगणना लोकतान्त्रिकशासनव्यवस्थायाः विकासस्य च आधारशिला अस्ति, या जनसंख्या, परिवाराणां स्थितिः, आवासः, संसाधनानि तथा सार्वजनिकसेवाप्राप्तेः सम्बन्धिनीं महत्त्वपूर्णां सूचनां प्रददाति। एतेषाम् आंकडानां आधारेण विकासयोजनाः निर्मीयन्ते तथा जनकल्याणकारीनीतिनां कार्यक्रमाणां च निर्माणं क्रियते।
मुख्यमन्त्री उक्तवान् यत् हिमाचलप्रदेशे जनगणना-२०२७ द्वयोः चरणयोः आयोजिता भविष्यति। प्रथमचरणः १६ जूनतः १५ जुलाई २०२६ पर्यन्तं सञ्चालितः भविष्यति, यः ‘गृहसूचीकरण एवं आवास जनगणना’ इत्यस्य उपरि आधारितः भविष्यति। द्वितीयचरणे जनसंख्यागणना क्रियिष्यते। तेन उक्तं यत् अस्मिन् वर्षे जनगणना पूर्णतया डिजिटलमाध्यमेन क्रियिष्यते। गणनाकर्तारः (एन्यूमरेटर) तथा पर्यवेक्षकाः (सुपरवाइजर) मोबाइलउपकरणानां माध्यमेन गृहाणां परिवाराणां च सम्बन्धिनीं सूचनां संगृह्णीयुः।
मुख्यमन्त्री उक्तवान् यत् प्रदेशस्य दुर्गमबर्फवृष्टिप्रभावितक्षेत्रेषु जनसंख्यागणना ११ सितम्बरतः ३० सितम्बर २०२६ पर्यन्तं भविष्यति, अन्येषु क्षेत्रेषु च एतत् कार्यं ९ फरवरीतः २८ फरवरी २०२७ पर्यन्तं सम्पन्नं भविष्यति। तेन प्रदेशवासिनः अस्य राष्ट्रियमहत्त्वयुक्तस्य अभियानस्य सफलतार्थं गणनाकर्तृभ्यः, पर्यवेक्षकेभ्यः तथा अन्येभ्यः जनगणनाधिकारीभ्यः सम्यक् पूर्णां च सूचनां प्रदाय सहयोगं कर्तुं आग्रहः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani