हाजिनां निवर्तनं शुभारब्धम्, अल्पसंख्यक कार्य मंत्री रिजिजूःवैमानिकस्थानके अकरोत् स्वागतम् 
नवदिल्ली, 02 जूनमासः (हि.स.)। सऊदीअरबदेशस्य मक्कानगरे हजयात्रायाः अनन्तरं हाजियात्रिकाणां स्वदेशप्रत्यागमनस्य क्रमः मङ्गलवासरे प्रारब्धः। नवदेहलीस्थिते इन्दिरागान्धीअन्ताराष्ट्रियविमानपत्तने सऊदीविमानसेवया प्रत्यागतानां ३७१ हाजियात्रिकाणां स्वा
दिल्ली के इंदिरा गांधी अंतरराष्ट्रीय हवाई अड्डे पर वतन वापस आने वाले  हाजियों का स्वागत करते अल्पसंख्यक कार्य मंत्री किरेन रिजिजू


दिल्ली के इंदिरा गांधी अंतरराष्ट्रीय हवाई अड्डे पर वतन वापस आने वाले  हाजियों का स्वागत करते अल्पसंख्यक कार्य मंत्री किरेन रिजिजू


दिल्ली के इंदिरा गांधी अंतरराष्ट्रीय हवाई अड्डे पर वतन वापस आने वाले  हाजियों का स्वागत करते अल्पसंख्यक कार्य मंत्री किरेन रिजिजू


नवदिल्ली, 02 जूनमासः (हि.स.)।

सऊदीअरबदेशस्य मक्कानगरे हजयात्रायाः अनन्तरं हाजियात्रिकाणां स्वदेशप्रत्यागमनस्य क्रमः मङ्गलवासरे प्रारब्धः। नवदेहलीस्थिते इन्दिरागान्धीअन्ताराष्ट्रियविमानपत्तने सऊदीविमानसेवया प्रत्यागतानां ३७१ हाजियात्रिकाणां स्वागतार्थं केन्द्रीयअल्पसंख्यककार्यमन्त्री किरेनरिजिजू आगत्य पुष्पमालाभिः प्रथमयात्रिकदलस्य स्वागतं कृतवान्।

हजसमितेः अध्यक्षा कौसरजहाँ अवदत् यत् हाजियात्रिकाणां प्रथमदलस्य देहलीं प्रत्यागमनस्य अवसरॆ केन्द्रीयमन्त्री स्वयम् विमानपत्तनम् आगत्य यत् स्वागतं कृतवान्, तत् तेषां, तेषां मन्त्रालयस्य तथा प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रीयसर्वकारस्य हजयात्रिकेषु गाढरुचिं प्रदर्शयति।

अस्मिन् वर्षे भारतीयहाजियात्रिकाणां कृते केवलं भारतदेशे एव न, अपितु सऊदीअरबस्य मक्का-मदीना तथा मीना-अराफातप्रदेशेषु अपि अधिकसुविधानां व्यवस्था कृता। भारतीयहाजियात्रिकाः पूर्वं मक्कातः मदीनां तथा मदीनातः मक्कां यावत् बसयानैः नीयन्ते स्म, यस्मिन् पञ्चघण्टाधिकः समयः व्यतीयते स्म। अस्मिन् वर्षे हाजियात्रिकाणां परिवहनार्थं बसयानानां स्थाने बुलेटरेलयानस्य उपयोगः कृतः। तथैव अस्मिन् हजकालखण्डे विश्वस्य विशालतमायां टेण्टनगर्यां मीनायां प्रथमवारं हाजियात्रिकेभ्यः सोफाशय्याः तथा तेषां प्रयोगार्थं अन्यवस्तूनि अपि प्रदत्तानि।

देहलीराज्यहजसमितेः कार्यकारीअधिकारी अशफाकअहमदआरफी अवदत् यत् अद्य जेद्दानगरात् देहलीम् आगतायाः प्रथमायाः हजयात्राविमानसेवायाः ३७१ प्रत्यागतहाजियात्रिकेषु देहल्याः १९१, उत्तरप्रदेशस्य १६०, बिहारस्य १२, हरियाणायाः २, उत्तराखण्डस्य ४ तथा जम्मू-कश्मीरस्य २ हाजियात्रिकाः सन्ति।

सः अवदत् यत् अस्मिन् वर्षे सरकारीयकोटान्तर्गतं भारतदेशात् हजयात्रां गतानां कुलं १७२०२५ हाजियात्रिकाणां मध्ये देहलीप्रदेशस्य ३२१२, हरियाणायाः १६२६, उत्तरप्रदेशस्य १०९९२, बिहारस्य १३७४, जम्मू-कश्मीरस्य १०५३, उत्तराखण्डस्य १३४८, राजस्थानस्य ४४४, झारखण्डस्य २३०, मध्यप्रदेशस्य २०९, हिमाचलप्रदेशस्य ६७, पञ्जाबस्य ३०८, गुजरातस्य ०७, पश्चिमबङ्गस्य ६०, लद्दाखस्य ०२, असमस्य २६, छत्तीसगढ़स्य १४, कर्नाटकस्य ०७, अरुणाचलप्रदेशस्य ०२, चण्डीगढ़स्य ३१, ओडिशायाः ०९, तमिलनाडोः ०३, तेलङ्गानायाः ०२, त्रिपुरायाः ०२ तथा महाराष्ट्रस्य ०४ हजयात्रिकाः अपि समाविष्टाः सन्ति।

एतेषु महिलाहाजियात्रिकाणां संख्या ९६८४ अस्ति, यदा तु पुरुषहाजियात्रिकाणां संख्या ११३४८ अस्ति। अल्पकालिकहजयात्रायां गतानां हाजियात्रिकाणां संख्या २००० अस्ति तथा मेहरमविना हजयात्रां गतानां महिलाहाजियात्रिकाणां संख्या ४३ अस्ति।

सः अवदत् यत् देहल्याः कुलं ५४ विमानयात्राभिः हाजियात्रिकाणां प्रस्थानं जातम्, यदा तु तेषां प्रत्यागमनम् अपि कुलं ५४ विमानयात्राभिः भविष्यति तथा अन्तिमा विमानयात्रा ३० जूनदिने आगमिष्यति।

Hindusthan Samachar / Dheeraj Maithani