जयशंकरः दक्षिण अफ्रीकायाः उपराष्ट्रपतिना माशाटाइलेन सह अमिलत्
नवदिल्ली, 02 जूनमासः (हि.स.)।विदेशमन्त्री डॉ. एस् जयशङ्करः मङ्गलवासरे दक्षिणआफ्रिकाराज्यस्य उपराष्ट्रपतिना शिपोक्सा पॉलस् माशाटाइलेन सह मेलनम् अकरोत्। अस्मिन् अवसरे दक्षिणआफ्रिकाराज्यस्य प्रतिनिधिमण्डलस्य भारतीयपक्षस्य च मध्ये दिल्लीनगरे उच्चस्तरी
विदेश मंत्री डॉ. एस जयशंकर  दक्षिण अफ्रीका के उप राष्ट्रपति और प्रतिनिधिमंडल से द्विपक्षीय सहयोग पर चर्चा करते हुए।


नवदिल्ली, 02 जूनमासः (हि.स.)।विदेशमन्त्री डॉ. एस् जयशङ्करः मङ्गलवासरे दक्षिणआफ्रिकाराज्यस्य उपराष्ट्रपतिना शिपोक्सा पॉलस् माशाटाइलेन सह मेलनम् अकरोत्। अस्मिन् अवसरे दक्षिणआफ्रिकाराज्यस्य प्रतिनिधिमण्डलस्य भारतीयपक्षस्य च मध्ये दिल्लीनगरे उच्चस्तरीयमेलनस्य आयोजनम् अभवत्, यस्यां द्विपक्षीयसहकार्यस्य विभिन्नक्षेत्रेषु विस्तृता चर्चा अभवत्।

मेलने उभौ नेतारौ व्यापारः, निवेशः, सूक्ष्मलघुमध्यमोद्यमाः (एमएसएमई), डिजिटलअवसंरचना तथा रणनीतिकसहकारिता इत्येतेषां अधिकसुदृढीकरणस्य अवसरान् विषये विचारविमर्शम् अकुरुताम्।

विदेशमन्त्री भारतदक्षिणआफ्रिकयोः मध्ये दीर्घकालात् प्रचलितानां मैत्रीपूर्णसम्बन्धानां उल्लेखं कृत्वा सहकारिता अधिकं गभीरां कर्तुं दक्षिणआफ्रिकाराज्यस्य दृढप्रतिबद्धतायाः प्रशंसाम् अकरोत्। सः अवदत् यत् व्यापारनिवेशडिजिटलमूलभूतसंरचनाक्षेत्रेषु उभयदेशयोः कृते व्यापकाः सम्भावनाः विद्यमानाः सन्ति।

मेलनम् अस्य विषयस्य अपि सहमतिः अभवत् यत् भारतं दक्षिणआफ्रिकाराज्यं च वैश्विकबहुपक्षीयमञ्चेषु परस्परसमन्वयं अधिकं सुदृढं करिष्यतः।

एतन्मेलनं भारतदक्षिणआफ्रिकयोः मध्ये रणनीतिकसम्बन्धानां नूतनदिशां प्रदातुं द्विपक्षीयसहकार्यं च अधिकं सशक्तं कर्तुं दिशि महत्त्वपूर्णा मन्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani