भारतम्अफ्रीकी रोग नियंत्रण केंद्राय प्रेषितवत् 43 टनमिता चिकित्सा सहायता
नव दिल्ली, 02 जूनमासः (हि.स.)।भारतेन अफ्रीकारोगनियन्त्रणनिवारणकेन्द्राय (अफ्रीका सीडीसी) चिकित्सासहायतायाः द्वितीयचरणस्य अन्तर्गतं सुरक्षोपकरणानि, डायग्नोस्टिक् तथा मॉनिटरिंग् उपकरणानि, औषधानि, सप्लीमेण्ट्स् च प्रेषितानि। त्रिचत्वारिंशत्तनपरिमितभार
भारत का अफ्रीका सीडीसी को चिकित्सा सहायता।


नव दिल्ली, 02 जूनमासः (हि.स.)।भारतेन अफ्रीकारोगनियन्त्रणनिवारणकेन्द्राय (अफ्रीका सीडीसी) चिकित्सासहायतायाः द्वितीयचरणस्य अन्तर्गतं सुरक्षोपकरणानि, डायग्नोस्टिक् तथा मॉनिटरिंग् उपकरणानि, औषधानि, सप्लीमेण्ट्स् च प्रेषितानि। त्रिचत्वारिंशत्तनपरिमितभारयुक्ता एषा सहायता अफ्रीकीयराष्ट्राणां सार्वजनिकस्वास्थ्यतत्परतां अधिकं सुदृढां करिष्यति तथा इबोलामहामार्याः प्रतिकारक्षमतां वर्धयिष्यति।

विदेशमन्त्री डॉ. एस् जयशङ्करः मङ्गलवासरे एक्स्-माध्यमे स्वस्य पोस्ट् मध्ये अवदत् यत् भारतेन अफ्रीका सीडीसी इत्यस्मै चिकित्सासहायतायाः द्वितीयचरणः प्रेषितः। अस्मिन् त्रिचत्वारिंशत्तनभारयुक्ते प्रेषणे सुरक्षात्मकगियर्, डायग्नोस्टिक् तथा मॉनिटरिंग् उपकरणानि, औषधानि, सप्लीमेण्ट्स् च अन्तर्भवन्ति।

जयशङ्करः अवदत् यत् अस्माकं विश्वासः अस्ति यत् एषा खेपः अफ्रीकीयसङ्घस्य राष्ट्रेषु सार्वजनिकस्वास्थ्यतत्परतां सुदृढां करिष्यति तथा इबोलाप्रतिक्रियाक्षमतां वर्धयिष्यति।

उल्लेखनीयं यत् अफ्रीकारोगनियन्त्रणनिवारणकेन्द्रम् (अफ्रीका सीडीसी) अफ्रीकीयसङ्घस्य स्वास्थ्यसंस्थानम् अस्ति। अस्य मुख्यालयः इथियोपियाराष्ट्रस्य राजधानी अदीसअबाबा-नगरे स्थितः अस्ति। एतत् अफ्रीकीयमहाद्वीपे सङ्क्रामकरोगाणां निगराणीम्, महामारीनियन्त्रणम्, प्रयोगशालाक्षमताविस्तारम्, सार्वजनिकस्वास्थ्यआपत्कालीनप्रबन्धनञ्च करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani