(लीड) लामिछाने नितिन नवीनेनसहामिलत् , भारत-नेपालयोर्मिथस्संबंधेषु विस्तृता चर्चा तेन विहिता
नवदिल्ली, 02 जूनमासः (हि.स.)। नेपालस्य सत्तारूढदलस्य राष्ट्रियस्वतन्त्रपार्टीदलस्य अध्यक्षः रविलामिछाने मङ्गलवासरे भारतीयजनतापार्टीदलस्य राष्ट्रियाध्यक्षेण नितिननवीनेन सह अत्र तत्मुख्यालये मेलनम् अकरोत्। अस्मिन् अवसरे उभयोः नेतृयोः मध्ये नेपालभारतय
नेपाल


नेपाल


नवदिल्ली, 02 जूनमासः (हि.स.)। नेपालस्य सत्तारूढदलस्य राष्ट्रियस्वतन्त्रपार्टीदलस्य अध्यक्षः रविलामिछाने मङ्गलवासरे भारतीयजनतापार्टीदलस्य राष्ट्रियाध्यक्षेण नितिननवीनेन सह अत्र तत्मुख्यालये मेलनम् अकरोत्। अस्मिन् अवसरे उभयोः नेतृयोः मध्ये नेपालभारतयोः सम्बन्धानां, लोकतान्त्रिकमूल्यानां, परस्परसहकार्यस्य च विषये विस्तृता चर्चा अभवत्।

भाजपाध्यक्षस्य नवीनस्य निमन्त्रणेन सोमवासरे पञ्चदिवसीयदौराय भारतम् आगतः लामिछाने मङ्गलवासरे प्रातः भाजपा-मुख्यालये भव्यतया स्वागतम् अलभत। भाजपायाः नेतारः कार्यकर्तारश्च पारम्परिकझाङ्कीभिः, पुष्पमालाभिः, ढक्का-नगाडवादनैश्च तस्य स्वागतं कृतवन्तः। मुख्यालयं प्राप्ते तस्य स्वागतकर्तृषु भाजपायाः राष्ट्रियमहासचिवः मुख्यालयप्रभारी अरुणसिंहः, भाजपायाः विदेशविषयप्रमुखः विजयचौथाईवाले इत्यादयः अनेकाः नेतारः समाविष्टाः आसन्।

भाजपाध्यक्षः नवीनः आरएसपी-अध्यक्षस्य लामिछानेस्य पुष्पगुच्छेन सह स्वागतं कृत्वा तस्मै स्मृतिचिह्नम् अर्पितवान्। अपरतः लामिछाने नेपालस्य धार्मिकसांस्कृतिकविरासतायाः प्रतीकरूपेण मान्यमानात् पशुपतिनाथमन्दिरात् आनीतं विशेषतिलकं रुद्राक्षतुलसीमाले च अर्पयित्वा भाजपाध्यक्षस्य सम्मानम् अकरोत्। तदतिरिक्तं लामिछाने रजत-निर्मितां पशुपतिनाथमन्दिरस्य आकर्षकप्रतिरूपिकाम् अपि नितिननवीनाय अर्पितवान्। एतदुपहारं नेपालस्य धार्मिकश्रद्धायाः, सांस्कृतिकपरिचयस्य, भारतनेपालयोः शताब्दिप्राचीनसभ्यतासम्बन्धानां च प्रतीकरूपेण मन्यते।

अस्मिन् अवसरे भाजपानेता तस्मै पार्टीमुख्यालयस्य संरचनां साङ्गठनिकव्यवस्थां च विषये जानकारीम् अददात्। अस्याः भेंटायाः समये उभयदेशयोः मध्ये पार्टीस्तरे सम्बन्धान् अधिकसुदृढान् कर्तुं परस्परसहकार्यस्य च विषये चर्चा अभवत्।

भाजपायाः अनुसारम् अस्याः यात्रायाः मुख्योद्देश्यः भाजपा तथा आरएसपी इत्येतयोः मध्ये संवादस्य स्थापना, साङ्गठनिककार्यप्रणाल्याः जनकेन्द्रितराजनैतिकपद्धतेश्च विषये विचाराणाम् आदानप्रदानं कर्तुम् अस्ति।

भाजपायाः अनुसारं ‘भाजपां जानीयात्’ इति पहलस्य माध्यमेन विदेशीयराजनैतिकदलान् राजनयिकांश्च भाजपायाः इतिहासेन, विचारधारया, साङ्गठनिकसंरचनया, कार्यप्रणाल्या च परिचिताः क्रियन्ते।

आरएसपी-नेतॄणां अनुसारम् उपहाराणां माध्यमेन नेपालभारतयोः मध्ये सह-सांस्कृतिक-आध्यात्मिकनिक्षेपस्य प्रकाशनस्य प्रयासः कृतः।

पञ्चसदस्यीयनेपालीप्रतिनिधिमण्डले आरएसपी-अध्यक्षेन लामिछानेन सह तस्य पत्नी निकितापौडेल्, आरएसपी-सह-महामन्त्री विपिनकुमारआचार्यः, दीपकबोहोरा, प्रदीपआचार्यश्च समाविष्टाः सन्ति। स्वस्य अस्मिन् दौरायां लामिछाने भारते निवसद्भिः नेपालीसमुदायस्य जनैः सह संवादम् अपि करिष्यति तथा उत्तरप्रदेशस्य अयोध्यानगरं गमिष्यति, यत्र सः रामललायाः दर्शनपूजनसहितेषु अनेकधार्मिकसांस्कृतिकमहत्त्वयुक्तेषु कार्यक्रमेषु सहभागं करिष्यति।

उल्लेखनीयं यत् नेपालस्य राजनैतिकपरिदृश्ये जातपरिवर्तनस्य दृष्ट्या लामिछानेस्य एषः दौरः अत्यन्तं महत्त्वपूर्णः मन्यते, यदा उभौ देशौ कूटनीतिकराजनैतिकसम्बन्धानां नूतनदिशं दातुं प्रयत्नशीलौ स्तः।------------

Hindusthan Samachar / Dheeraj Maithani