कर्नाटकस्य नूतनमंत्रिमंडले मंथनाय दिल्ल्यां डीके शिवकुमारः सिद्धारमैया च
नवदिल्ली, 02 जूनमासः (हि.स.)। कर्णाटकराज्ये नवीनसर्वकारस्य गठनार्थं मन्त्रिमण्डलस्य च अन्तिमरूपनिर्धारणार्थं डीकेशिवकुमारः कार्यवाहकमुख्यमन्त्री सिद्धारमैय्याः च दिल्लीनगरे स्थितौ स्तः। उभौ नेतारौ कांग्रेसाध्यक्षेन मल्लिकार्जुनखरगेण, राहुलगान्धिन
सिद्धारमैया की होटल से निकलते हुए विदेश मंत्री डॉ. एस. जयशंकर से भी मुलाकात के दौरान


नवदिल्ली, 02 जूनमासः (हि.स.)।

कर्णाटकराज्ये नवीनसर्वकारस्य गठनार्थं मन्त्रिमण्डलस्य च अन्तिमरूपनिर्धारणार्थं डीकेशिवकुमारः कार्यवाहकमुख्यमन्त्री सिद्धारमैय्याः च दिल्लीनगरे स्थितौ स्तः। उभौ नेतारौ कांग्रेसाध्यक्षेन मल्लिकार्जुनखरगेण, राहुलगान्धिना तथा अन्यैः वरिष्ठनेतृभिः सह उपवेशनङ्करिष्यतः, यस्यां मन्त्रिमण्डलगठनस्य प्रमुखसाङ्गठनिकनियुक्तीनां च विषये चर्चा भविष्यति।

दिल्लीनगरे सिद्धारमैय्यस्य होटलतः निर्गच्छतः समये विदेशमन्त्री डॉ. एस् जयशङ्करेण सह अपि भेंटः अभवत्। अस्मिन् अवसरे पत्रकारैः मल्लिकार्जुनखरगेण सह भविष्यन्त्याः बैठकाश्य कार्यसूच्याः विषये पृष्टे सः अवदत् यत् तस्मै ज्ञातं नास्ति।

सूत्रैः उक्तं यत् अस्यां बैठके भविष्यन्त्याः चर्चायाः कृते डीकेशिवकुमारेण मन्त्रिमण्डलस्य सम्भावितसदस्यानां प्रारम्भिकसूची सज्जीकृता अस्ति। कांग्रेसनेतृत्वेन सह विचारविमर्शानन्तरं अस्याः सूच्याः अन्तिमरूपं निर्धारितं भविष्यति। कथ्यते यत् प्रथमचरणे दशतः विंशतिपर्यन्तं मन्त्रिणः शपथं ग्रहीष्यन्ति।

एतदपि कथ्यते यत् कर्णाटके नवीनसर्वकारगठनार्थं अधिकांशविषयेषु सहमतिः जाता अस्ति तथा अन्तिमस्वीकृतेः अनन्तरं नाम्नां घोषणा भविष्यति। मन्यते यत् डीकेशिवकुमारस्य नेतृत्वे नवीनसर्वकारस्य शपथग्रहणसमारोहः आगामिद्विदिनेषु बेङ्गलूरुनगरे आयोज्यते, यस्मिन् मन्त्रिपरिषदः प्रथमचरणस्य सदस्याः अपि शपथं ग्रहीष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani