कर्नाटके सद्भिः-धार्मिक संस्थाभिश्च कृता ज़मीर अहमद खानम् उपमुख्यमंत्रिणं कर्तुम् अभ्यर्थना
-कार्यवाहकाय मुख्यमंत्रिणे सिद्धारमैया इत्यस्मै समर्पितं ज्ञापनम् बेंगलुरुः, 02 जूनमासः (हि.स.)। कर्णाटकस्य विभिन्नमठानां, धार्मिकसंस्थानानां पूजनीयसन्तानां च प्रतिनिधयः कार्यवाहकमुख्यमन्त्रिणा सिद्धारमैय्येन सह मेलनङ्कृत्वा पूर्वमन्त्री बी. जेड्
जमीरा अहमद एक्स-पोस्टा


-कार्यवाहकाय मुख्यमंत्रिणे सिद्धारमैया इत्यस्मै समर्पितं ज्ञापनम्

बेंगलुरुः, 02 जूनमासः (हि.स.)। कर्णाटकस्य विभिन्नमठानां, धार्मिकसंस्थानानां पूजनीयसन्तानां च प्रतिनिधयः कार्यवाहकमुख्यमन्त्रिणा सिद्धारमैय्येन सह मेलनङ्कृत्वा पूर्वमन्त्री बी. जेड्. ज़मीरअहमदखान् इत्यस्य राज्यस्य उपमुख्यमन्त्रिपदे नियुक्तिं कर्तुं निवेदनम् अकुर्वन्। अस्य विषये प्रतिनिधिमण्डलेन मुख्यमन्त्रिणे एकं ज्ञापनम् अपि समर्पितम्।

ज़मीरअहमदखानो मङ्गलवासरे सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र अस्याः मेलनस्य सूचनां सामायिकीकृत्य उक्तवान् यत् राज्यस्य विभिन्नभागेभ्यः आगताः सन्तः, मठाधीशाः, धार्मिकसंस्थानानां प्रमुखाश्च कार्यवाहकमुख्यमन्त्रिणा सह मेलनङ्कृत्वा तस्य समर्थनार्थं स्वीयं मतं प्रस्तुतवन्तः।

तेन उक्तं यत् सः स्वयं अपि अस्मिन् अवसरे उपस्थितः आसीत् तथा विभिन्नधार्मिकसामाजिकसंस्थानैः तस्मिन् विश्वासः व्यक्तः इति दृष्ट्वा सः अत्यन्तं प्रसन्नः अभवत्। ज़मीरः सर्वेषां तेषां सन्तानां, धार्मिकनेतॄणां, संस्थानप्रमुखाणां च प्रति कृतज्ञतां प्रकटितवान् येन तस्य समर्थनं सद्भावना च प्रदर्शिता।

पूर्वमन्त्री उक्तवान् यत् समाजस्य विभिन्नवर्गेभ्यः प्राप्यमाणं प्रेम, सहयोगः विश्वासश्च तस्य कृते प्रेरणायाः स्रोतः अस्ति। तेन सर्वेषां सन्तानां धार्मिकनेतॄणां च प्रदत्ताशिषां समर्थनस्य च कृते हृदयतः धन्यवादः व्यक्तः।

ज़मीरअहमदखानः उक्तवान् यत् जनतायाः समाजस्य विभिन्नवर्गाणां च विश्वासः तस्य कृते महान् शक्तिस्रोतः अस्ति तथा सः अग्रेऽपि जनसेवायै राज्यस्य विकासाय च समर्पितभावेन कार्यं करिष्यति। तेन विश्वासः व्यक्तः यत् जनतायाः अपेक्षासु सफलतां प्राप्तुं सर्वतोभावेन प्रयासं करिष्यति।

राजनैतिकवृत्तेषु अस्य घटनाक्रमस्य महत्त्वं मन्यते, यतः राज्ये नेतृत्वस्य महत्त्वपूर्णपदानां च विषये चर्चाः प्रवर्तमानाः सन्ति। विभिन्नधार्मिकसामाजिकसंस्थानैः कस्यचित् नेतुः समर्थनार्थं स्पष्टतया अग्रे आगमनं राजनैतिकदृष्ट्या अपि महत्त्वपूर्णं मन्यते।

तथापि उपमुख्यमन्त्रिपदस्य विषये अद्यापि कापि आधिकारिकघोषणा न कृता अस्ति। अतः सन्तानां धार्मिकसंस्थानानां च एषा पहलः राजनैतिकसामाजिकस्तरयोः चर्चायाः विषयः अभवत्। अधुना अस्याः माग्याः विषये पार्टीनेतृत्वस्य शासनस्य च कः दृष्टिकोणः भविष्यति इति विषये सर्वेषां दृष्टिः केन्द्रिता अस्ति।-------------

Hindusthan Samachar / Dheeraj Maithani