Enter your Email Address to subscribe to our newsletters

धर्मशाला, 02 जूनमासः (हि.स.)।
हिमाचलप्रदेशस्य काङ्गडाघाट्यां गतचतुर्वर्षेभ्यः निरुद्धा रेलसेवा मङ्गलवासरात् पुनर्बहालीकृता अस्ति। हिमाचलपञ्जाबसीम्ना सह पठानकोटनगरे चक्कीरेलसेतुस्य पुनर्निर्माणस्य कारणेन एतत् सम्भवं जातम्, येन रेलसम्पर्काय पुनः नूतना गतिर्लब्धा अस्ति।
पूर्वकेन्द्रीयमन्त्री हमीरपुरसंसदीयक्षेत्रस्य सांसदः अनुरागसिंहठाकुरः तथा सांसदः डॉ. राजीवभारद्वाजः अद्य काङ्गडारेलस्थानकात् नैरोगेज्-रेलयानानां हरितध्वजं प्रदर्श्य रेलसेवायाः शुभारम्भम् अकुरुताम्। अस्मिन् अवसरे काङ्गडाविधायकः पवनकाजलः विधायकः ठाकुररणबीरसिंहनिक्का, रेलविभागस्य डीआरएम् विवेककुमारः च उपस्थिताः आसन्।
सांसदः अनुरागसिंहठाकुरः अवदत् यत् मोदीसर्वकारस्य लक्ष्यं हिमाचलस्य प्रत्येकं भागं रेलसेवया सम्बद्धं कर्तुम् अस्ति। काङ्गडायाः एषा रेलयानसेवा तस्यैव सङ्कल्पस्य भागः अस्ति। नैरोगेज्-रेलयानस्य प्रारम्भेण काङ्गडा-धर्मशालाक्षेत्रे पर्यटनाय महत् प्रोत्साहनं भविष्यति। सहैव स्थानीयजनानाम् आवागमनसुविधा युवानां कृते च रोजगारस्य नवीनाः अवसराः उत्पत्स्यन्ते।
तेन उक्तं यत् कांग्रेसदलेन षष्टिवर्षेषु दरिद्रजनाः केवलं मतसङ्ग्रहार्थं प्रयुक्ताः।
गौरतलबं यत् वर्षे २०२२ मध्ये बाढाप्रकोपस्य कारणेन हिमाचलप्रदेशपञ्जाबयोः सीम्नि स्थितः चक्कीनदीरेलसेतुः वहितः अभवत्, यस्य कारणेन पठानकोटतः काङ्गडायाः दिशि रेलसेवा पूर्णतया बाधिता जाता। चक्कीनद्याः उपरि अस्य सेतोः पुनर्निर्माणस्य मागः केन्द्रसर्वकारस्य समक्षम् उत्थापितः, यस्मिन् कार्यवाहीं कृत्वा रेलमन्त्रालयेन सेतुनिर्माणकार्यं प्रारब्धम्। प्रायः सप्ततिः कोटिरूप्यकाणां व्ययेन निर्मितः अयं नूतनसेतुः आधुनिकप्रविध्या निर्मितः अस्ति। रेलसेवायाः पुनर्बहालीकरणेन देवभूमौ पर्यटनस्य संवर्धनं भविष्यति तथा स्थानीय-अर्थव्यवस्था अपि सुदृढा भविष्यति।
प्राकृतिकविपत्तये केन्द्रात् १११ कोटिरूप्यकाणि याचितानि
अनुरागसिंहठाकुरः अवदत् यत् प्राकृतिकविपत्तेः निवारणार्थं केन्द्रसर्वकारात् १११ कोटिरूप्यकाणां याचना क्रियते। भाजपा सङ्कटकाले प्रत्येकस्मिन् हिमाचलीजनेन सह पूर्णदृढतया स्थितवती अस्ति।
अनुरागसिंहठाकुरः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारेण केन्द्रीयबजट् २०२६-२७ मध्ये देवभूमेः हिमाचलप्रदेशस्य कृते रेलजालस्य विस्ताराय, आधुनिकीकरणाय, सुरक्षायोजनायै, विद्युतीकरणाय च २९११ कोटिरूप्यकाणि अनुमोदितानि। मोदीसर्वकारस्य हिमाचले रेलजालविकासे सदा विशेषयोगदानं जातम् तथा अनुमोदिता एषा राशि कांग्रेससर्वकारेण प्रदत्तराशेः सप्तविंशतिगुणा अधिका अस्ति। यदि देवभूमौ वर्तमानरेलविस्तारकार्याणि दृष्टानि तर्हि अधुना हिमाचले १७ सहस्र ७११ कोटिरूप्यकाणां परियोजनाः प्रचलन्ति, येन राज्ये रेलजालं अधिकं सुदृढं भविष्यति। षट्चत्वारिंशत्कोटिरूप्यकाणां व्ययेन हिमाचलप्रदेशस्य चत्वारि रेलस्थानकानि अमृतस्थानकयोजनायाः अन्तर्गतं पुनर्विकसितानि भविष्यन्ति इति अपि अस्मिन् बजटे प्रावधानं कृतम्।
काङ्गडासांसदः डॉ. राजीवभारद्वाजः अवदत् यत् पर्वतीयराज्ये रेलजालस्य विस्तारः विकासस्य नूतनपट्टिकायां हिमाचलस्य अग्रे गमनम् इति अर्थः।
काङ्गडाविधायकः पवनकाजलः अवदत् यत् काङ्गडाजनतायाः दशकात् प्रचलितं स्वप्नम् अद्य साकारं जातम्। नैरोगेज्-रेलयानसेवया अस्माकं क्षेत्रस्य पर्यटनं व्यापारः रोजगारश्च वर्धिष्यन्ते। भाजपानेतारः अवदन् यत् एषः अवसरः हिमाचलस्य रेलयातायातसुविधायाः महत्त्वपूर्णः चरणः अस्ति, यस्य कृते प्रधानमन्त्रिणे नरेन्द्रमोदिने रेलमन्त्री अश्विनीवैष्णवाय च कृतज्ञता प्रकट्यते।
Hindusthan Samachar / Dheeraj Maithani