छत्तीसगढहोमस्टेनीतेः अंतर्गते हितग्राहिभ्यो दत्तं व्यवसायसंचालनं, ऋणसुविधापर्यटनसंभावनाभ्यां संबद्धता सूचना च’
बस्तरे होमस्टे-उद्यमिभ्योऽमिलत् मार्गदर्शनं, पर्यटनाधारितायै स्वजीविकायै वृद्धिश्च रायपुरम्, 02 जूनमासः (हि.स.)। छत्तीसगढहोमस्टेनीतिः २०२५-३० इत्यस्य अन्तर्गतं मङ्गलवासरे नवीनहितग्राहिणां जागरूकतां प्रशिक्षणं च उद्दिश्य एकस्य महत्त्वपूर्णसभायाः
छत्तीसगढ़ होमस्टे नीति के तहत नए हितग्राहियों को जागरूक एवं प्रशिक्षित करने बैठक


बस्तरे होमस्टे-उद्यमिभ्योऽमिलत् मार्गदर्शनं, पर्यटनाधारितायै स्वजीविकायै वृद्धिश्च

रायपुरम्, 02 जूनमासः (हि.स.)।

छत्तीसगढहोमस्टेनीतिः २०२५-३० इत्यस्य अन्तर्गतं मङ्गलवासरे नवीनहितग्राहिणां जागरूकतां प्रशिक्षणं च उद्दिश्य एकस्य महत्त्वपूर्णसभायाः आयोजनम् अभवत्। एषा सभा छत्तीसगढपर्यटनमण्डलस्य पर्यटनसूचनाकेन्द्रे जगदलपुरे जिल्ला-पञ्चायत् बस्तरस्य सहयोगेन आयोजिता, यस्यां बहुसंख्यकेन इच्छुकहितग्राहिभिः सहभागिता कृता।

सभायाः मुख्योद्देश्यं नवीनहितग्राहिणः होमस्टेव्यवसायस्य सूक्ष्मविषयैः परिचितान् कर्तुं, तान् पर्यटनाधारितस्वरोजगाराय प्रोत्साहितुं तथा छत्तीसगढहोमस्टेनीतेः २०२५-३० प्रभावीक्रियान्वयनस्य प्रति जागरूकान् कर्तुं च आसीत्। अस्याः प्रशंसनीयपहलस्य फलस्वरूपं बस्तरक्षेत्रे सामुदायिकपर्यटनस्य संवर्धनं भविष्यति तथा स्थानीयजनानां आयवृद्धिः जीविकायाः नवीनावसराणां सृजनं च भविष्यति इति प्रबला आशा वर्तते।

सभायां उपस्थितहितग्राहिभ्यः तेषां प्रस्तावितहोमस्टे विषये विस्तृता जानकारी गृहीता। अधिकारिभिः विशेषतया ज्ञातं यत् हितग्राहिणः कस्मिन् स्थाने होमस्टे संस्थापयितुम् इच्छन्ति तथा तस्य क्षेत्रस्य समीपे कानि कानि पर्यटनस्थलानि आकर्षणानि वा विद्यमानानि सन्ति। अधिकारिणां अनुसारं स्थानीयप्राकृतिकसांस्कृतिकऐतिहासिकधरोहराभिः समृद्धेषु क्षेत्रेषु होमस्टेव्यवसायस्य विकासेन पर्यटनगतिविधीनां नूतना गतिः भविष्यति, येन स्थानीयस्तरे रोजगारस्य अवसराः वर्धिष्यन्ते।

अस्मिन् अवसरे हितग्राहिणः होमस्टेव्यवसायस्य सफलसञ्चालनस्य विभिन्नपक्षैः अवगताः कृताः। तेषां मुख्यविषयेषु विस्तृता सूचना प्रदत्ता। अतिथिसत्कारार्थं पर्यटकानां स्वागतं आतिथ्यप्रबन्धनं च, स्वच्छतायाः गुणवत्तामानकानां च कठोरतया पालनम्, सुविधाः विपणनं च इत्यस्य अन्तर्गतं पर्यटकेभ्यः प्रदेयाः आवश्यकसुविधाः तथा डिजिटलप्रचारप्रसारस्य उपायाः, छत्तीसगढहोमस्टेनीतेः २०२५-३० प्रावधानानि, पात्रताशर्ताः आवेदनप्रक्रिया च विषये अवगतं कारितम्।

’ऋणसुविधा तथा वित्तकोषीयसहयोगः’

सभायाम् उपस्थितैः छत्तीसगढग्रामीणबैङ्कस्य अधिकारिभिः योजनायाः अन्तर्गतं प्राप्यमाणवित्तीयसहायतायाः विषये सूचना प्रदत्ता। तैः हितग्राहिणः ऋणसुविधा, ब्याजानुदानं तथा बैङ्किंगप्रक्रियाः विषये विस्तरेण बोधिताः तथा आश्वासनं दत्तं यत् शासनस्य सहाय्येन बैङ्किंगसहयोगेन च इच्छुकहितग्राहिणः स्वस्य होमस्टेव्यवसायं सफलतया स्थापयितुं शक्नुवन्ति।

’बस्तरक्षेत्रे सामुदायिकपर्यटनस्य अपाराः सम्भावनाः’

कार्यक्रमे विशेषरूपेण उपस्थितः जिल्ला-पञ्चायत् बस्तरस्य सहायकपरियोजनाधिकारी तपनडे हितग्राहिणः मार्गदर्शनम् अकरोत्। तेन उक्तं यत् बस्तरस्य प्राकृतिकसौन्दर्यं, समृद्धजनजातीयसंस्कृतिः, पर्यटनस्थलानां विविधता च होमस्टेव्यवसायाय अपाराः सम्भावनाः प्रददाति। तेन सर्वे हितग्राहिणः पर्यटकेभ्यः उच्चगुणवत्तायुक्ताः सेवाः प्रदातुं तेषां कृते उत्तमानुभवं निर्मातुं च प्रेरिताः।

---------------

Hindusthan Samachar / Dheeraj Maithani